SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 5 10 - २६८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे यदि वा कामान् सम्यग् अनु पश्चात् स्नेहानुबन्धाद् जानाति सेवत इति कामसमनुज्ञः । एवम्भूतश्च किम्भूतो भवति ? इत्याह- असमियदुक्खे अशमितम् अनुपशमितं विषयाभिष्वङ्ग- कषायोत्थं दुःखं येन स तथा । यत एवाशमितदुःखोऽत एव दुःखी शारीर-मानसाभ्यां दुःखाभ्याम् । तत्र शारीरं कण्टक-शस्त्र-गण्डलूतादिसमुत्थम्, मानसं प्रियविप्रयोगा - ऽप्रिय संयोगेप्सितालाभ-दारिद्र्य-दौर्भाग्य- दौर्मनस्यकृतम् । तद् द्विरूपमपि दुःखं विद्यते यस्यासौ दुःखी । एवम्भूतश्च सन् किमवाप्नोति ? इत्याह- दुक्खाणमित्यादि । दुःखानां शारीरमानसानामावर्तं पौनः पुण्यभवनमनुपरिवर्तते, दुःखावर्तावमग्नो बम्भ्रम्यत इत्यर्थः । इति परिसमाप्तौ । ब्रवीमि इति पूर्ववत् ॥छ । ॥ लोकविजयस्य तृतीयोद्देशकटीका समाप्ता ॥ १. विषय - कषायोत्थं क । २. ०सम्प्रयोगे ० च । ३. ०दौर्मनस्यभूतम् च । ४. दुक्खाणं इत्यादि ख च । ५. मावर्तः ख । ६. इतिः ख च । ७. तृतीयोद्देशकः समाप्तः ॥ छ । ख च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy