________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । तृतीय उद्देशकः
२६७
अथवा मिथ्यात्वा ऽविरति -प्रमाद - कषाय-योगैः आदानीयं कर्मादाय । किम्भूतो भवति ? इत्याह-तस्मिन् ज्ञानादिमये मोक्षमार्ग सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठति नात्मान विधत्ते ।
न केवलं सर्वज्ञोपदेशस्थाने न तिष्ठति विपर्ययानुष्ठायी च भवतीति दर्शयति–वितहमित्यादि । वितथम् असद्भूतं दुर्गतिहेतुं तत् तथाभूतमुपदेशं प्राप्य अखेदज्ञः अकुशलः, खेदज्ञो वा असंयमस्थाने, तस्मिंश्च साम्प्रतेक्ष्याचरिते उपदिष्टे वा तिष्ठति, तत्रैवासंयमस्थानेऽध्युपपन्नो भवतीति यावत् । अथवा वितथम् इति आदानीयभोगाङ्गव्यतिरिक्तं संयमस्थानं तत् प्राप्य खेदज्ञः निपुणस्तस्मिन् स्थाने आवानीयस्य हन्तृणि तिष्ठति, सर्वज्ञाज्ञायामात्मानं व्यवस्थापयतीत्यर्थः ।
अर्थ चोपदेशो नवगततत्त्वस्य विनेयस्य यथोपदेशं प्रवर्तमानस्य दीयते 10 यस्त्ववगत हेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्ते इति, आह च - उस इत्यादि । उद्दिश्यते इति उद्देशः उपदेश: सदसत्कर्तव्याऽकर्तव्यादेशः सः पश्यतीति पश्य:, स एव पश्यकस्तस्य न विद्यते स्वत एव विदित-वेद्यत्वात् तस्य । अथवा पश्यतीति पश्यकः सर्वज्ञः तदुपदेशवती वा तस्य, उद्दिश्यत इति उँद्देशः नारकादिव्यपदेश: उच्चा - ऽवचगोत्रादिव्यपदेशो वा से तस्य 15 न विद्यते, तस्य द्रागेव मोक्षगमनादिति भावः । कः पुनर्यथोपदेशकारी न भवति ? इत्याह
5
बाले इत्यादि । बालो नाम रागादिमोहितः, स पुनः कषायैः कर्मभिः परीषहोपसर्गैर्वा निहन्यत इति निहः । निपूर्वाद् हन्तेः कर्मणि डः । अथवा स्निह्यत इति स्निहः स्नेहवान् रागीत्यर्थः । अत एवाह - कामसमगुण्णे कामा: 20 इच्छा - मदनरूपाः सम्यग् मनोज्ञा यस्य स तथा । अथवा सह मनोज्ञैर्वर्तत इति मनोज: गमकत्वात् सापेक्षस्यापि समासः कामैः समनोज्ञः कामसमनोज्ञः ।
साक्षाचरित क गती ऋते । २. गतसत्त्वो हेयो० क । ३. स्वयमेव ख । ४. चयन । ५ उपदेशः ङ । ६ नरकादि० व ७. प्रागेव क ग ८. बाल: रागादि० ख ९. “पुण विसेसणं । किं विसेसेति ? ण केवलं वयबालो. पुट्टो (बुड्ढी ? ) वि कज्जा ऽकज्ज अयाणओ वालो देव ।" चूर्णो । १० जिह्यतीति ख च । ११. स्नेहः
।
9