________________
२६६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे ज्ञानादियानविकलाः, यद्यपि तेऽप्योघतरणायोद्यतास्तथापि सम्यगुपायाभावाद् न ओघतरणसमर्था भवन्तीति । आह च
नो य ओहं तरित्तए, न च नैव ओघं भावौघं तरितुं समर्थाः, संसारौघतरणप्रत्यला न भवन्तीत्यर्थः । तथा
अतीरंगमा इत्यादि । तीरं गच्छन्तीति तीरङ्गमाः । पूर्ववत् खच्प्रत्ययादिकम् । न तीरङ्गमा अतीरङ्गमाः । एते इति प्रत्यक्षभावमापन्नान् कुतीथिकादीन् दर्शयति । न च ते तीरगमनायोद्यता अपि तीरं गन्तुमलम्, सर्वज्ञोपदिष्टसन्मार्गाभावादिति भावः । तथा
____ अपारंगमा इत्यादि । पार: तटः परकूलम्, तद् गच्छन्तीति पारङ्गमाः, न 10 पारङ्गमा अपारङ्गमाः । एते इति पूर्वोक्ताः पारगतोपदेशाभावाद् अपारगता इति
भावनीयम् । न च ते पारगतोपदेशमृते पारगमनायोद्यता अपि पारं गन्तुमलम् । अथवा गमनं गमः, पारस्य पारे वा गमः पारगमः, सूत्रे त्वनुस्वारोऽलाक्षणिकः, न पारगमः अपारगमः, तस्मा अपारगमाय । असमर्थसमासोऽयम्, तेनायमर्थ:
पारगमनाय ते न भवन्तीत्युक्तं भवति । ततश्चानन्तमपि कालं संसारान्तर्वर्तिन 15 एवासते । यद्यपि पारगमनायाभ्युद्यमयन्ति तथापि ते सर्वज्ञोपदेशविकला: स्वरुचिविरचितशास्त्रप्रवृत्तयो नैव संसारपारं गन्तुमलम् ।
अथ तीर-पारयोः को विशेषः ? इत्युच्यते-तीरं मोहनीयक्षयः; पारं शेषघातिक्षयः, अथवा तीरं घातिचतुष्टयापगमः; पारं भवोपग्राह्यभाव इति ।।
स्यात्-कथमोघतारी कुतीर्थादिको न भवति तीर-पारगामी च ? इत्याह
आयाणिज्जमित्यादि । आदीयन्ते गृह्यन्ते सर्वभावा अनेनेति आदानीयं श्रुतं तदादाय तदुक्ते तस्मिन् संयमस्थाने न तिष्ठति । यदि वा आदानीयम् आदातव्यं भोगाङ्गं द्विपद-चतुष्पद-धन-धान्य-हिरण्यादि, तद् आदाय गृहीत्वा ।
20
ill
१. भवन्तीत्याह-ग । २. पूर्वगता: ख । ३. अपारङ्गता च । ४. अपरागमनाय ग च । ५. असमर्थः समासो० क । ६. पारगमाय ख । ७. पारगमनायोद्यमयन्ति घ ङ च । ८. ०शास्त्रवृत्तयो क च । ९. न संसार० ख । १०. इत्यर्थः । घ ङ च । ११. कुतीर्थ्यादिको च । १२. आयाणिज्जं इत्यादि ख । १३. ०धान्यादि, तद् ख ।।