________________
10
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । तृतीय उद्देशकः २६५ दस्युर्वाऽपहरति, राजानो वा विलुम्पन्ति अवच्छिन्दन्ति, नश्यति वा स्वत एवाटवीतः, से तस्य, विनश्यति वा जीर्णभावापत्तेः, अगारदाहेन वा गृहदाहेन वा दह्यते । कियन्ति वा कारणान्यर्थनाशे वक्ष्यन्ते ? इत्युपसंहरति
इति एवं बहुभिः प्रकारैरुपार्जितोऽप्यर्थो नाशमुपैति, नैवोपार्जयितुरुपतिष्ठते इत्युपदिश्यते । सः अर्थस्योत्पादयिता परस्मै अन्यस्मै अर्थाय प्रयोजनाय 5 प्रयोजनकृते क्रूराणि गलकर्तनादीनि कर्माणि अनुष्ठानानि बाल: अज्ञः प्रकुर्वाण: विदधानः तेन कर्मविपाकापादितेन दुःखेन असातोदयेन मूढः अपगतविवेकः विपर्यासमुपैति अपगतसदसद्विवेकत्वात् कार्यमकार्यं मन्यते व्यत्ययं चेति, उक्तं च
राग-द्वेषाभिभूतत्वात् कार्या-ऽकार्यपराङ्मुखः । एष मूढ इति ज्ञेयो विपरीतविधायकः ॥ [
तदेवं मौढ्यान्धतमसाच्छादितालोकपथाः सुखार्थिनो दुःखमृच्छन्ति जन्तव इति ज्ञात्वा सर्वज्ञवचनदीपमशेषपदार्थस्वरूपाविर्भावकमाललम्बिरे मुनयः । अदश्च मया न स्वमनीषिकयोच्यते, सुधर्मस्वामी जम्बूस्वामिनमाह । यदि स्वमनीषिकया नोच्यते, कौतस्त्यं त_दम् ? इत्यत आह
मुणिणा इत्यादि । मनुते जगतस्त्रिकालावस्थामिति मुनिः तीर्थकृत् तेन, एतद् असकृदुच्चैर्गोत्रभवनादिकम् , प्रकर्षणादौ वा सर्वस्वभाषानुगामिन्या वाचा वेदितं कथितं वक्ष्यमाणं च प्रवेदितम् । किं तद् ? इत्याह
अणोहमित्यादि ओघो द्विधा-द्रव्य-भावभेदात् । द्रव्योघो नदीपूरादिकः । भावौघोऽष्टप्रकारं कर्म संसारो वा, तेन हि प्राण्यनन्तमपि कालमुह्यते । तम् ओघं 20 ज्ञान-दर्शन-चारित्रबोहित्थस्थाः तरन्तीत्योघन्तराः, न ओघन्तरा अनोघन्तराः । तरतेश्छान्दसत्वात् खच्, खित्त्वाद् मुमागमः । एते कुतीर्थिकाः पार्श्वस्थादयो वा
15
१. "णस्सति चउप्पयादि सयमेव, अपयं देवताजोगेण" चूर्णौ । २. परस्मा अर्थाय ग घ, परस्माद(5)न्यस्माद(s)र्थाय ख । ३. ०य अन्यप्रयोजनकृते कप्रतिमृते । ४. दुःखमर्थयन्ति क, दुःखमिच्छन्ति ग । ५. ०वचनप्रदीप० घ ङ । ६. सर्वभाषा० घ । ७. अणोहं इत्यादि ख । ८. ०बोधिस्थस्था: घ ङ च विना ।