________________
२६४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे अर्थाल्पता भवति सत्तां बिभर्ति । किम्भूता सा ? सूत्रेणैव कथयति–अल्पा वा बह्वी वा, अल्पबहुत्वं चापेक्षिकम्, अतः सर्वाऽप्यल्पा सर्वाऽपि बह्वी । स इत्यर्थवान् तत्र तस्मिन्नर्थे गृद्धः अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपा
जनक्लेशम्, न गणयति रक्षणपरिश्रमम्, न विवेचयति तरलताम्, नावधारयति 5 फल्गुताम्, उक्तं च
कमिकलचितं लालाक्लिनं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम् । सुरपतिमपि श्वा पार्श्वस्थं सशङ्कितमीक्षते,
न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् ॥ [ ] इत्यादि । 10 स च किमर्थमर्थयते ? इत्यत आह–भोयणाए भोजनम् उपभोगस्तस्मै .. अर्थमर्थयते, तदर्थी च क्रियासु प्रवर्तते, क्रियावतश्च किं भवति ? इत्याह-तओ
से इत्यादि । ततः से तस्यावलगनादिकाः क्रियाः कुर्वतः एकदा लाभान्तरायकर्मक्षयोपशमे विविधं नानाप्रकारं परिशिष्टं प्रभूतत्वाद् भुक्तोद्वरितं सम्भूतं
सम्यक्प्रतिपालनाय भूतं संवृत्तम्, किं तत् ? महच्च तत् परिभोगाङ्गत्वाद् 15 उपकरणं च महोपकरणं द्रव्यनिचय इत्यर्थः, स कदाचिल्लाभोदये भवति । असावप्यन्तरायोदयाद् न तस्योपभोगायेत्याह
तं पि से इत्यादि । तदपि समुद्रोत्तरण-रोहणखनन-बिलप्रवेशरसेन्द्रमर्दन-राजावलगन-कृषीवलादिकाभिः क्रियाभिः स्व-परोपतापकारिणीभिः
स्वोपभोगायोपार्जितं सत् से तस्यार्थो पार्जनोपायक्लेशकारिणः एकदा भाग्यक्षये 20 दायादाः पितृपिण्डोदकदानयोग्याः विभजन्ते विलुम्पन्ति, अदत्तहारो वा
१. अर्थाल्पा भवति । सा च किम्भूता ? अल्पा वा ख । २. सर्वाल्पा ख । ३. अध्युपपन्नः सन् नालोचय० ख। ४. नोऽवधारयति ख । ५. ०रसं प्रीत्या क ख । ६. ०ताम् ॥ लब्धं तेन शुना स्वतोऽस्थिशकलं नैवात्तु ( न्य? )मभ्युद्यते , मह्यं दत्तमहं पुनर्भगवता हन्तुं तमेवोद्यतः । इन्द्रादप्यधिको मुनिः पुनरहं प्रायः शुनो पीतरो, या यस्येह भवेद्गतिर्गतिमतः सा चेष्टया व्यज्यते ॥ इत्यादि ख ग ङ, केवलं खआदर्श पाठान्तरान्तस्थ: इत्यादि इति पाठो नोपलभ्यते । ७. इत्याह ख । ८. तक्रियावतश्च क । ९. “संभितं वा संभूतं" चूर्णौ । १०. सत् इति कप्रतौ न वर्तते । ११. ०पार्जनक्लेश० ख ग । १२. अदत्ताहारो ख ग।