________________
__ प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । तृतीय उद्देशकः २५९ रसायनादिकाः क्रियाः सत्त्वोपघातकारिणी: कुर्वते । तथा क्षेत्रं शालिक्षेत्रादि वास्तु धवलगृहादि ममेदम् इत्येवमाचरतां तत् क्षेत्रादिकं प्रेयो भवति । किञ्च-आरक्तम् ईषद्रक्तं वस्त्रादि, विरक्तं विगतरागं विविधरागं वा, मणिः इति रत्नवैडूर्येन्द्रनीलादि, कुण्डलं कर्णाभरणम्, हिरण्येन सह स्त्रीः परिगृह्य तत्रैव क्षेत्रवास्त्वारक्त-विरक्तवस्त्र-मणि-कुण्डल-स्त्र्यादौ रक्ताः गृद्धा अध्युपपन्ना मूढा 5 विपर्यासमुपयान्ति, वदन्ति च-नात्र तपो वा अनशनादिलक्षणम् दमो वा इन्द्रियनोइन्द्रियोपशमलक्षण: नियमो वा अहिंसात्तलक्षणः फलवान् दृश्यते, तथाहितपो-नियमोपेतस्यापि कायक्लेश-भोगादिवञ्चनां विहाय नान्यत् फलमुपलभ्यते, जन्मान्तरे भविष्यतीति चेद, व्युद्ग्राहितस्योल्लापः, किञ्च-दृष्टहानिरदृष्टकल्पना च पापीयसी । तदेवं साम्प्रतेक्षी भोगेसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्णं यथा- 10 वसरसम्पादितविषयोपभोगं बालः अज्ञः जीवितुकामः आयुष्कानुभवनमभिलषन् लालप्यमानः भोगार्थमत्यर्थः लपन् वाग्दण्डं करोति, तद्यथा-अत्र तपो दमो नियमो वा फलवान् न दृश्यत इति । एवमर्थं ब्रुवन् मूढः अबुध्यमानो हतोपहतो जाति-मरणमनुपरिवर्तमानो जीवित-क्षेत्र-स्त्र्यादिलोभपरिमोहितमनाः विपर्यासमुपैति तत्त्वेऽतत्त्वाभिनिवेशम् अतत्त्वे च तत्त्वाभिनिवेशं हिते- 15 ऽहितबुद्धिमित्येवं सर्वत्र विपर्ययं विदधाति, उक्तं च
दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहः ये रिपवस्तेषु सुहृदाशा ? ॥ [ ] इत्यादि ।
ये पुनरुन्मज्जच्छुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्ते किम्भूता भवन्ति? इत्याह
१. ०का: सत्त्वोपघातकारिणी: क्रियाः कुर्वते ख च । २. "आरत्तं ईसि त्ति रत्तं आरतं, अहवा अच्चत्थं रत्तं" चूर्णौ । ३. विरक्तं विविधरागं विरागं वा च । ४. स्त्री परिगृह्य ते तत्रैव ग । ५. अनशनादिकम् च । ६. वा व्रतलक्षणः घ, वा ब्रह्मलक्षण: ङ । ७. नियमोपपेतस्यापि ङ । ८. फलं लभ्यते च । ९. जन्मातरेऽपि भवि० घ ङ । १०. ०रदृष्टपरिकल्पना ख ग च । ११. पापीयसीति । च । १२. भोगसंविदितैकपुरुषा० ख । १३. सम्पूर्णयथाव० ग । १४. अविद्यमानो ख । १५. ०लोभे परि० क । १६. ०निवेशं च हिते० च । १७. ०बुद्धिमेवं ख च ।