SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २५८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे विकट-शीतोष्णादिभेदभिन्ना योनी: सन्दधाति सन्धत्ते, चतुरशीतियोनिलक्षसम्बन्धाविच्छेदं विदधातीति भावः, सम्यग् धावतीति वा तासु तास्वायुष्कबन्धोत्तरकालं गच्छतीत्यर्थः । तासु च नानाप्रकारासु योनिषु विरूपरूपान् नानाप्रकारान् स्पर्शान् दुःखानुभावान् परिसंवेदयते अनुभवतीत्यर्थः ।। तदेवमुच्चैर्गोत्रोत्थापितमानोपहतचेता नीचैर्गोत्रविहितदीनभावो वाऽन्धबधिरभूयं वा गतः सन् नावबुध्यते कर्तव्यम्, न जानाति कर्मविपाकम्, नावगच्छति संसारापशदताम्, नावधारयति हिताऽहिते, न गणयत्यौचित्यम्, इत्यनवगततत्त्वो मूढस्तत्रैवोच्चैर्गोत्रादिके विपर्यासमुपैति, आह च से अबुज्झमाणे इत्यादि यावत् मूढे विप्परियासुवेइ । स इत्युच्चै10 गोत्राभिमानी अन्ध-बधिरादिभावसंवेदको वा कर्मविपाकमबुध्यमानो हतोपहतो भवति । नानाव्याधिसद्भावक्षतशरीरत्वाद् हतः, समस्तलोकपरिभूतत्वाद् उपहतः । अथवोच्चैर्गोत्रगर्वाध्मातत्यक्तोचितविधेयविद्वज्जनवदनसमुद्भूतशब्दाऽयश:पटहहतत्वाद् हतः, अभिमानोत्पादितानेकभवकोटिनीचैर्गोत्रोदयाद् उपहतः । मूढो विपर्यासमुपैतीत्युत्तरेण सम्बन्धः । तथा जातिश्च मरणं च समाहारद्वन्द्वः तद् 15 अनुपरिवर्तमानः पुनर्जन्म पुनर्मरणमित्येवमरघट्टघटीयन्त्रन्यायेन संसारोदरे विवर्तमानः, आवीचीमरणाद्वा प्रतिक्षणं जन्म-विनाशावनुभवन् दुःख-सागरावगाढो विशरारुण्यपि नित्यताकृतमतिः हितेऽप्यहिताध्यवसायो विपर्यासमुंपैतीति, आह च __ जीवितम् आयुष्कानुपरमलक्षणमसंयमजीवितं वा पृथक् इति प्रत्येक 20 प्रतिप्राणि प्रियं दयितं वल्लभम् इह इत्यस्मिन् संसारे एकेषाम् अविद्योपहतचेतसां मानवानाम् इति उपलक्षणार्थत्वात् प्राणिनाम्, तथाहि-दीर्घजीवनार्थं तास्ता १. विधत्ते च । २. ०रापसदताम् ङ च । ३. अबुज्झमाणो ग । ४. विप्परिआसुवेइ घ ङ, विप्परियासमेइ च । ५. ०मनवबुध्यमानो ख च । ६. पटहत्वात् क घ ङ । ७. अभिमानापादिता० ख ग च । ८. ०कोटी० ग । ९. ०मरहट्ट० क घ ङ। १०. परिवर्तमानः ख । ११. नित्यत्वकृतमति: ग । १२. ०मुपैति, आह च क प्रतिमृते । १३. ०मसंयमलक्षणजीवितं ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy