________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । तृतीय उद्देशकः २५७ जीवन्नेव मृतोऽन्धो यस्मात् सर्वक्रियासु परतन्त्रः । नित्यास्तमितदिवाकरतमोऽन्धकारार्णवनिमग्नः ॥ लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम् । को नोद्विजेत भयकृज्जननादिवोग्रात्, कृष्णाहिनैकनिचितादिव चान्धगर्तात् ॥
[] एवं बधिरत्वमप्यदृष्टवशाद् अनेकशः परिसंवेदयते, तदावृतश्च सदस- 5 द्विवेकविकलत्वाद् ऐहिका-ऽऽमुष्मिकेष्टफलक्रियानुष्ठानशून्यतां बिभर्तीति, उक्तं
च
10
धर्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुतिश्रवणसंव्यवहारबाह्यः । किं जीवतीह बधिरो भुवि यस्य शब्दाः स्वप्नोपलब्धधननिष्फलतां प्रयान्ति ? ॥ स्वकलत्र-बाल-पुत्रकमधुरवचःश्रवणबाह्यकर्णस्य । बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य ? ॥ [ ] एवं मूकत्वमप्येकान्तेन दुःखावहं परिसंवेदयते, उक्तं चदुःखकरमकीर्तिकरं मूकत्वं सर्वलोकपरिभूतम् । प्रत्यादेशं मूढाः कर्मकृतं किं न पश्यन्ति ॥ [ तथा काणत्वमप्येवंरूंपमिति, आह च
__15 काणो निमग्नविषमोन्नतदृष्टिरेकः, शक्तो विरागजनने जननातुराणाम् । यो नैव कस्यचिदुपैति मन:प्रियत्वमालेख्यकर्मलिखितोऽपि किमु स्वरूपः ? ॥
एवं कुण्टत्वं पाणिवक्रत्वादिकम्, कुब्जत्वं वामनलक्षणम्, वडभत्वं विनिर्गतपृथ्वीवडभलक्षणम्, श्यामत्वं कृष्णलक्षणम्, शबलत्वं श्वित्रलक्षणम् सहजं 20 पश्चाद्भावि वा कर्मवशगो भूरिशो दुःखराशिदेशीयं परिसंवेदयते । किञ्च सह प्रमादेन विषयक्रीडाभिष्वङ्गरूपेण श्रेयस्यनुद्यमात्मकेने वाऽनेकरूपाः सङ्कट
१. बिभर्ति, उक्तं घ ङ । २. दुःखरूपं संवेदयत इति, उक्तं च ख, दुःखरूपं परिवेदयत इति, उक्तं च च । ३. "प्रत्यादेशम् इति दृष्टान्तः" जै०वि०प० । ४. ०रूपमेवेति ख च । ५. च इति कप्रतौ नास्ति । ६. ०विषमोत्कटदृष्टि० ग च । ७. पृथि(ष्ठि ? )वडभ० ङ। ८. कुष्ठलक्षणम् क ख । ९. चित्रलक्षणम् ख च, क-ङप्रत्योः पाठभङ्गः । १०. ०न क्रीडा० ग। ११. न चानेक० ख, ०न अनेक० घ ङ।