________________
२५६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे परिहरताऽऽत्मा पञ्चमहाव्रतेष्वास्थेयः । तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते
समिए एयाणुप्पस्सी, पञ्चभिः समितिभिः समितः सन् एतत् शुभाशुभं कर्म वक्ष्यमाणं वाऽन्धत्वादिकं द्रष्टुं शीलं यस्येति एतदनुदर्शी, भूतेषु सातं 5 जानीहीति सण्टङ्कः ।
__तत्र समितिः इति 'इण्' गतौ [पा०धा० १०४५] इत्यस्मात् सम्पूर्वात् क्तिन्नन्ताद्भवति। सा च पञ्चधा, तद्यथा-ईर्याभाषैषणादाननिक्षेपोत्सर्गरूपा । तत्रेर्यासमितिः प्राणाव्यपरोपणव्रतप्रतिपालनाय, भाषासमितिः असदभिधाननियम
संसिद्धये, एषणासमितिः अस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तव्रतप्रष्ठस्या10 हिंसाव्रतस्य संसिद्धये व्याप्रियत इति । तदेवं पञ्चमहाव्रतोपपेतस्तवृति
कल्पसमितिभिः समितः सन् भावत एतद्भूतसातादिकमनुपश्यति । अथवा यदनुदय॑सौ भवति [त?] तद्यथेत्यादिना सूत्रेणैव दर्शयति___ अन्धत्वमित्यादि यावत् विरूवरूवे फासे परिसंवेएइ । संसारोदरे पर्यटन् प्राण्यन्धत्वादिका अवस्था बहुशः परिसंवेदयते । स चान्धो द्रव्यतो 15 भावतश्च । तत्रैकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिया द्रव्य-भावान्धाः । चतुरिन्द्रियादयस्तु मिथ्यादृष्टयो भावान्धाः, उक्तं चएकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिद्वितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ? ॥ [ ]
सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धाः, त एवानघा न द्रव्यतो न च भावतः । 20 तदेवमन्धत्वं द्रव्य-भावविभिन्नमेकान्तेन दुःखजननमवाप्नोतीति, उक्तं च
१. ०ऽशुभकर्म ख । २. शीलमस्येति ख । ३. इणु ग । ४. प्राणव्यपरोपणविरतिप्रति० ख च । ५. ०परिपालनाय ग घ ङ। ६. ०प्रतिपालनाय क । ७. ०प्रकृष्टस्याहिंसा० च । ८. ख-चप्रती ऋतेऽन्यत्र इति इति नोपलभ्यते । ९. ०वृत्तिभूतसमितिभिः ख च । १०. सूत्रेण दर्श० क । ११. विरूपरूपे क च । १२. परिसंवेदेति ख । १३. प्राण्यन्धादिका ख । १४. चतुरिन्द्रियास्तु ख ग । १५. ०स्तद्विद्भिरेव च । १६. ०स्तस्यापि मार्ग० क ख ग । १७. नापि भावतः ख च । १८. ०भावभेदभिन्न० ख ग च. ०भावभिन्न० घ ङ।