________________
प्रथमे श्रुतस्कन्थे द्वितीयमध्ययनं लोकविजयः । तृतीय उद्देशकः
वाणियमो वा दिस्सति । संपुण्णं बाले जीविकामे लालप्पमाणे मूढे विप्परियासमुवेति ।
२५५
I
भूहिं इत्यादि । भवन्ति भविष्यन्त्यभूवन्निति च भूतानि असुभृतस्तेषु प्रत्युपेक्ष्य पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि अवगच्छ । किं जानीहि ? सातं सुखम्, तद्विपरीतमसातमपि जानीहि । किं च कारणं साताऽसातयोः ? एतज्जानीहि - किं वाभिलषन्त्यविगानेन प्राणिनः इति । अत्र जीवजन्तु-प्राण्यादिशब्दान् उपयोगलक्षणद्रव्यस्य मुख्यान् वाचकान् विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति यथा-अयमुपयोगलक्षणः पदार्थोऽवश्यं सत्तां बिभर्ति, साताभिलाष्यसातं च जुगुप्सते, साताभिलाषश्च शुभप्रकृतित्वात्, अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम्, अतः 10 शुभनाम - गोत्रा - ऽऽयुराद्याः कर्मप्रकृतीरनुधावत्यशुभाश्च जुगुप्सते सर्वोऽपि प्राणी ।
एवं च व्यवस्थिते किं विधेयम् ? इत्याह- समिए इत्यादि । अथवा भूतेषु शुभाऽशुभरूपं कर्म प्रत्युपेक्ष्य यत् तेषामप्रियं तंद् न विदध्यात् इत्ययमुपदेशः । नागार्जुनीयास्तु पठन्ति–पुंरिसे णं खलु दुक्खुव्वेय - सुहेस ।
5
पुरुषः जीवः । णमिति वाक्यालङ्कारे । खलुः अवधारणे । दुःखाद् उद्वेगो 15 यस्य स दुःखोद्वेगः, सुखस्यैषकः सुखैषकः, याजकादित्वात् समासः छान्दसत्वाद्वा, दुःखोद्वेगश्चासौ सुखैषकश्च दुःखोद्वेग-सुखैषकः ।
११
सर्वोऽपि प्राणी दुःखोद्वेग-सुखैषक एव भवति अतो जीवप्ररूपणं कार्यम् । तच्चावनि-वन - पवना - ऽनल - वनस्पति- सूक्ष्म - बादर-विकलपञ्चेन्द्रिय-संज्ञीतर-पर्याप्तका -ऽपर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव । तेषां च 20 दुःखपरिजिहीषूणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि
"
१. च इति खआदर्शे नास्ति । २. " जाणति त्ति जाणतो " चूर्णौ । ३. अवबुध्यस्व ख च । ४. 'वाचकान् इति शब्दान्" जै०वि०प० । ५. ०वादिनो च । ६. यथा समुपयोग० क । ७. एवं स्थिते सति किं ख । ८. व्यवस्थिते सति किं ग च । ९. तं न ख छ । १०. "पुरिसेण खलु दुक्खविवागगवेसएणं पुव्विं ताव जीवाभिगमे कायव्वे जाव इच्छिता -ऽणिच्छे" चूर्णौ । ११. एवेति अतो खग ।