________________
२५३
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । तृतीय उद्देशकः नावकाङ्क्षेदिति । तत्र यद्युच्चा - ऽवचेषु स्थानेष्वसकृदुत्पन्नोऽसुमांस्ततः किम् ?
इत्याह
इति संखाए इत्यादि । इतिः उपप्रदर्शने । इत्येतत् पूर्वोक्तनीत्योच्चाऽवचस्थानोत्पादादिकं परिसङ्ख्याय ज्ञात्वा को गोत्रवादी भवेत् ? यथा-ममोच्चैर्गोत्रं सर्वलोकमाननीयं नापरस्येत्येवंवादी को बुद्धिमान् भवेत् ? तथाहि - मयाऽन्यैश्च जन्तुभिः 5 सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणीति । तथोच्चैर्गोत्रनिमित्तमानवादी वा को भवेत् ? न कश्चित् संसारस्वरूपपरिच्छेदीत्यर्थः । किञ्च–
कंसि वा एगे गिज्झे अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन् वा एकस्मिन् उच्चैर्गोत्रादिकेऽनवस्थितस्थानके रागादिविरहादेकः कथं गृध्येत्, तात्पर्यम्-आसेवां विदितकर्मपरिणामो विदध्यात् ? युज्येत गार्यं यदि 10 तत् स्थानं प्राप्तपूर्वं नाभविष्यत्, तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लाभाऽलाभयोर्नोत्कर्षा-ऽपकर्षो विधेयाविति । आह
चे
तम्हा इत्यादि, यतोऽनादौ संसारे पर्यटताऽसुमताऽदृष्टायत्तान्यसकृ- दुच्चाऽवचानि स्थानान्यनुभूतानि, तस्मात् कथञ्चिदुच्चादिकं मदस्थानमवाप्य पण्डितः हेयोपादेयतत्त्वज्ञः नं हृष्येत न हर्षं विदध्यात्, उक्तं च
]
]
सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे । उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु ॥ [ जइ सो वि निज्जरमओ पडिसिद्धो अट्टमाणमहहिं । अवसेसमयद्वाणा परिहरियव्वा पयत्तेण ॥ [ नाप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्यात्, आह च-नो कुंज्झे अदृष्टवशात् तथाभूतलोकासम्मतं जाति-कुल- रूप-बल- लाभादि कँमधममवाप्य न क्रुध्येत् न क्रोधं कुर्यात्, कतरन्नीचस्थानं शब्दादिकं वा 'दुःखं मया
-
१. नाभिकाङ्क्षेदिति ख । २. ०वचस्थाने० ङ । ३. संखाय ङ । ४. तद्यथा ख । ५. ० स्वभावपरि० ख च । ६. ०स्थिते स्थाने ख च, ०स्थिते स्थानके ङ । ७. स्थानं पूर्वं नाभ० ग । ८. प्राप्तम्, अत० ख च । ९ च इति खपुस्तके नास्ति । १०. न दृष्टो न हर्षं ख, न 'हृष्येत' हर्षं क । ११. " अट्टमाण इति अष्टमदाः " जै०वि०प० । १२. अवसेसा मयठाणा च । १३. कुप्पे 'त्यदृष्ट० ग । १४. ०कमवाप्य घ । १५. कुप्येत् क ग घ । १६. कुर्वीत च । १७. दुःखं इति खपुस्तके नास्ति ।
15
20