________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
अविषयत्वाद् न ताभ्यामिहाधिकारः । तौ चेमौ-बन्धोपरमे उच्चैर्गोत्रोदयः; सत्कर्मता तूभयस्येति षष्ठः, सप्तमस्तु शैलेश्यवस्थायां द्विचरमसमये नीचैर्गोत्रे क्षपिते उच्चैर्गोत्रोदयः, तस्यैव सत्कर्मतेति ।
10
२५२
तदेवमुच्चा - ऽवचेषु गोत्रेष्वसकृदुत्पद्यमानेनासुमता पञ्चभङ्गकान्तर्वर्तिना न 5 मानो विधेयो नापि दीनतेति । तयोश्चोच्चा - ऽवचयोर्गोत्रयोर्बन्धाध्यवसायस्थानकण्डकानि तुल्यानीत्याह - णो हीणे णो अइरित्ते । यावन्त्युच्चैर्गोत्रेऽनुभावबन्धाध्यवसायस्थानकण्डकानि नीचैर्गोत्रेऽपि तावन्त्येव । तानि च सर्वाण्यप्यसुमताऽनादिसंसारे भूयो भूयः स्पर्शितानि । तत उच्चैर्गोत्रकण्डकार्थतयाऽसुभृन्न हीनो नाप्यतिरिक्तः । एवं नीचैर्गोत्रकण्डकार्थतयाऽपीति ।
नागार्जुनीयास्तु पठन्ति - एगमेगे खलु जीवे अईअद्धाए असई उच्चागोए असई नीयागोए कंडयट्टयाए नो हीणे नो अइरिते ।
एैकैको जीवः, खलुशब्दः वाक्यालङ्कारे, अतीते कालेऽसकृदुच्चाऽवचेषु गोत्रेषूत्पन्नः, स चोच्चा - ऽवचानुभागकण्डकापेक्षया न हीनो नाप्यतिरिक्त इति, तथाहि - उच्चैर्गोत्रकण्डकेभ्य एकभविकेभ्यो ऽनेक भविके भ्यो वा 15 नीचैर्गोत्रकण्डकानि न हीनानि नाप्यतिरिक्तानीत्यतोऽवगम्य उत्कर्षा -ऽपकर्षौ न विधेयौ । अस्य चोपलक्षणार्थत्वात् सर्वेष्वपि मदस्थानेष्वेतदायोज्यम्, यतश्चोच्चाऽवचेषु स्थानेषु कर्मवशादुत्पद्यते ।
बल-रूप-लाभादिमदस्थानानां चासमञ्जसतामवगम्य किं कर्तव्यम् ? इत्याह–नो पौहए अँपिः सम्भावने, स च भिन्नक्रमः, जात्यादीनां मद20 स्थानानामन्यतमदपि नो ईहतापि नाभिलषेदपि । अथवा नो स्पृहयेत्
१. ० मुच्चा - वचगोत्रेष्व० ग । २. अतिरित्ते ग । ३. ०ध्यवसायकण्डकानि ख च । ४. तत्र तूच्चै ० ख । ५. नाप्यधिकः एवं ख । ६. ज्जीवे क । ७. अतीयद्धाए ख च । ८. असई क । ९. कंडगट्टयाए ख ग ङ कंडट्टयाए च । १०. नावि हीणे ग । ११. एवमेकैको ख । १२. ०नुभावकण्डका० ख । १३. " कण्डकेभ्य इति कोऽर्थः ? यदा बध्नाति तदा उच्चैर्गोत्रकण्डकानि" जै०वि०प०, "कंडगं परिमाणं छेदो त्ति वा" चूर्णौ । १४. नाप्यधिकानी० ख । १५." पीहणं णाम [म] दनभिलासकयं पेमं" चूर्णौ । १६. अपि ग च । १७. ० मन्यतमदपि खग । १८. ईहेत नाभि० ख ।