________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । तृतीय उद्देशकः २५१ सात्परिणामिता भवन्ति तदा पुद्गलपरावर्त इत्येके । अन्ये तु द्रव्य-क्षेत्र-कालभावभेदात् चतुर्धा वर्णयन्ति, प्रत्येकमसावपि बादर-सूक्ष्मभेदाद् द्वैविध्यमनुभवति। तत्र द्रव्यतो बादरो यदौदारिक-वैक्रिय-तैजस-कार्मणचतुष्टयेन सर्वपुद्गला गृहीत्वोज्झितास्तदा भवति, सूक्ष्मः पुनर्यदैकशरीरेण सर्वपुद्गलाः स्पर्शिता भवन्ति तदा द्रष्टव्यः । क्षेत्रतो बादरो यदा क्रमोत्क्रमाभ्यां म्रियमाणेन सर्वे 5 लोकाकाशप्रदेशाः स्पृष्टा भवन्ति तदा विज्ञेयः, सूक्ष्मस्तु यदैकस्मिन् विवक्षिताकाशखण्डके मृतः पुनर्यदा तस्यानन्तरप्रदेशवृद्ध्या सर्वं लोकाकाशं व्याप्नोति तदा ग्राह्यः । कालतो बादरो यदोत्सर्पिण्यवसर्पिणीसमयाः क्रमोत्क्रमाभ्यां म्रियमाणेनालिङ्गिता भवन्ति तदा विज्ञेयः, सूक्ष्मस्तूत्सर्पिणीप्रथमसमयादारभ्य क्रमेण सर्वसमया म्रियमाणेन यदा छुप्ता भवन्ति तदा- 10 ऽवगन्तव्यः । भावतो बादरो यदाऽनुभागबन्धाध्यवसायस्थानानि क्रमोत्क्रमाभ्यां म्रियमाणेन व्याप्तानि भवन्ति तदाऽभिधीयते, अनुभागबन्धाध्यवसायप्रमाणं तु संयमस्थानावसरे प्रागेवाभ्यधायीति, सूक्ष्मस्तु जघन्यानुभागबन्धाध्यवसायस्थानादारभ्य यदा सर्वेष्वपि क्रमेण मृतो भवति तदाऽवसेय इति ।
तदेवं कालङ्कलीभावमापन्नोऽन्यो वा नीचैर्गोत्रोदयाद् अनन्तमपि कालं 15 तिर्यक्ष्वास्ते । मनुष्येष्वपि तदुदयादेवावगीतोऽवगीतेषु स्थानेषूत्पद्यते । तथा कालङ्कलीसत्त्वोऽपि द्वीन्द्रियादिषूत्पन्नः सन् प्रथमसमये एव पर्याप्त्युत्तरकालं वोच्चैर्गोत्रं बद्ध्वा मनुष्येष्वसकृदुच्चैर्गोत्रमास्कन्दति । तत्र कदाचित् तृतीयभङ्गकस्थः पञ्चमभङ्गोपपन्नो वा भवति, ताविमौ-नीचैर्गोत्रं बध्नाति; उच्चैर्गोत्रस्योदयः; सत्कर्मता तूंभयस्य; तृतीयः । पञ्चमस्तूच्चैर्गोत्रं बध्नाति; 20 तस्यैवोदयः; सत्कर्मता तूभयस्य । षष्ठ-सप्तमभङ्गौ तूपरतबन्धस्य भवतः,
१. स्पृष्टा ख। २. ०णेनालिङ्गिता भवन्ति तदा ग, ०णेन सर्वलोका० क च । ३. ०स्तु तदा विज्ञेयो यदै० ख-च पुस्तके विना । ४. म-तस्तस्यानन्तर० ख । ५. सर्वलोका० क-घ प्रती विना । ६. प्लुता च । ७. ०ऽनुभावबन्धा० ग । ८. ०नुभावबन्धा० ङ । ९. "अन्यो वा इति निगोदः" जै०वि०प० । १०. अनन्तकालं घ ङ। ११. ०देवावगीतोऽवगीतेषु ख, ०देवावगीयते । तेषु स्थानेषू० च । १२. कलङ्कली० च । १३. उच्चैर्गोत्रोदयः क । १४. तूभयस्येति तृ० ख । १५. सत्कर्मतोभयस्य च ।