SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २५० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे वायुष्वाद्य एव भङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्धः उदयोऽपि तस्यैव सत्कर्मताऽपीति । ततोऽप्यु वृत्तस्यापरैकेन्द्रियगतस्यायमेव भङ्गः । त्रसेष्वप्यपर्याप्तकावस्थायामयमेव । अनिर्लेपिते तुच्चैर्गोत्रे द्वितीय-चतौँ भनौ, तद्यथा-नीचैर्गोत्रस्य बन्धः, उदयोऽपि तस्यैव, सत्कर्मता तूभयरूपस्यैवेति 5 द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धः, नीचस्योदयः, सत्कर्मता तुभयरूपस्येति चतुर्थः । शेषास्तु चत्वारो न सन्त्येव तिर्यशूच्चैर्गोत्रस्योदयाभावादिति भावः । तदेवमुच्चैर्गोत्रोद्वलनेन कालङ्कलीभावमापन्नोऽसङ्ख्येयमपि कालं सूक्ष्मत्रसेष्वास्ते, ततोऽप्युदवृत्त उच्चैर्गोत्रोदयाभावे सति द्वितीय-चतुर्थभङ्गस्थोऽनन्तमपि कालं तिर्यक्ष्वास्त इति, स चानन्ता उत्सर्पिण्यवसर्पिणी:, 10 आवलिकाकालासङ्ख्येयभागसमयसङ्ख्यान् पुद्गलपरावर्तानिति । कीदृशः पुनः पुद्गलपरावर्तः ? इत्युच्यते-यदौदारिक-वैक्रिय-तैजसभाषा-5ऽनापान-मन:-कर्मसप्तकेन संसारोदरविवरवर्तिनः पुद्गला आत्म १. ०ष्वाद्यो भङ्गकः ख च, ०ष्वाद्य एव भङ्गः ग, “आद्य एव इति सप्तत्या[?]प्रकार-प्रसिद्धगोत्रसम्बन्धे सप्तभङ्ग्य(ङ्गा)न् हृदि व्यवस्थाप्यासिस्व[?] वल्लिखति आ"जै०वि०प०, ___ङ पुस्तके त्वेतादृक् कोष्ठकमुपलभ्यते-- नी | नी नी बन्धः उदयः नी | २ | २ | २ सत्ता ० _4 | ० ० 0pm _ Pop 44 dal __ स(उ ?) २. बन्धो नीचस्योदयः सत्क० ख । ३. "सत्कर्मताऽपीति सत्ताऽपीति'' जै०वि०प० । ४. स्यान्यत्राप्यादावयमेव च । ५. तूच्चैर्गोत्रे द्वितीयो भङ्गकः, कस्यचित् प्रथमसमय एवापरस्यान्तर्मुहूर्ता?(द्वो )र्द्धमुच्चैर्गोत्रसम्बन्धसद्भावे चतुर्थभङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्धः उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति द्वितीयः, तथा च । ६. तत उच्चै० ग घ ङ, कपुस्तके पाठभङ्गः । ७. कलङ्कली० घ ङ, "कलङ्कलीभाव इति आरघट्टघटीयन्त्रन्यायेन" जै०वि०प० । ८. ०मापन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुद्वलिते वा तिर्यक्ष्वास्तेऽनन्ता उत्सर्पिण्य० ग घ ङ । ९. ०तैजस-कार्मण-भाषा० च । १०. ०ऽऽनपान० घ । ११. ०वर्तिना ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy