________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । तृतीय उद्देशकः २४९ उक्तो द्वितीयोद्देशकः । साम्प्रतं तृतीय आरभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके 'संयमे दृढत्वं कार्यम्, असंयमे चादृढत्वम्' उक्तम्, तच्चोभयमपि कषायव्युदासेन सम्पद्यते, तत्रापि मानः उत्पत्तेरारभ्य उच्चैर्गोत्रोत्थापितः स्यात्, अतस्तद्वयुदासार्थमिदमभिधीयते । ___ अस्य चानन्तरसूत्रेण सम्बन्धः-जहेत्थ कुसले नोवलिप्पेज्जासि 5 कुशलः निपुणः सन्नस्मिन्नुच्चैर्गोत्राभिमाने यथाऽऽत्मानं नोपलिम्पयेस्तथा विदध्यास्त्वम् । किं मत्वा ? इत्यतस्तदभिधीयते
[सू०७५] से असई उच्चागोए, असई णीयागोए । णो हीणे, णो अतिरित्ते । णो पीहए ।
इति संखाए के गोतावादी ? के माणावादी ? कंसि 10 वा एगे गिज्झे ? ___ तम्हा पंडिते णो हरिसे, णो कुज्झे ।
से असई उच्चागोए असई नीचागोए त्ति । स इति संसार्यसुमान् असकृत् अनेकशः उच्चैर्गोत्रे मान-सत्कारार्हे उत्पन्न इति शेषः । तथा असकृत् नीचैर्गोत्रे सर्वलोकावगीते पौन:पुन्येनोत्पन्न इति । तथाहि-नीचैर्गोत्रोदयाद् 15 अनन्तमपि कालं तिर्यक्ष्वास्ते, तत्र च पर्यटन् द्विनवतिनामोत्तरप्रकृतिसत्कर्मा संस्तथाविधाध्यवसायोपपन्नः आहारकशरीर-तत्सङ्घात-बन्धना-ऽङ्गोपाङ्गदेवगत्यानुपूर्वीद्वय-नरकगत्यानुपूर्वीद्वय-वैक्रियचतुष्टयरूपा एता द्वादश कर्मप्रकृतीनिर्लेप्याशीतिसत्कर्मा तेजोवायुषूत्पन्नः सन् मनुजगत्यानुपूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गोत्रमद्वलयति पल्योपमासङ्ख्येयभागेन । अतस्तेजो- 20
१. साम्प्रतं इति ङप्रतौ नास्ति । २. नोवलिप्पिज्जासि ख, नोवलिंपेज्जासि ग । ३. निपुणस्तस्मि० ख । ४. ०त्राभिधाने ख च । ५. असइ क, असई ग । ६. असई ग, असइ च। ७. नीआगोइ ख, नीयागोए घ ङ च । ८. "असइ अणेगसो अणंतसो वा' चूर्णौ । ९. तथा नीचै० क घ ङ । १०. च इति क-ड-प्रत्योर्नास्ति । ११. तत उच्चैर्गोत्रं च पल्यो० ख।