SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २४८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे एस इत्यादि । एष इति ज्ञानादियुक्तो भावमार्गो योगत्रिक-करणत्रिकेण दण्डसमादानपरिहारलक्षणो वा । आर्यैः आराद्याताः सर्वहेयधर्मेभ्य इति आर्याः संसारार्णवतटवर्तिनः क्षीणघातिकर्मांशाः संसारोदरविवरवर्तिभावविदः तीर्थ कृतस्तैः । प्रकर्षेण सदेव-मनुजायां परिषदि सर्वस्वभाषानुगामिन्या वाचा 5 यौगपद्याशेषसंशीतिच्छेत्त्र्या प्रकर्षेण वेदितः कथितः प्रतिपादित इति यावत् । एवम्भूतं च मार्गं ज्ञात्वा किं कर्तव्यम् ? इत्याह जहेत्थ इत्यादि । तेषु तेष्वात्मबलोपधानादिकेषु कार्येषु समुत्थितेषु सत्सु दण्डसमुपादानादिकं परिहरन् कुशलः निपुणोऽवगततत्त्वो यथैतस्मिन् दण्ड समुपादाने स्वमात्मानं नोपलिम्पयेः न तत्र संश्लेषं कुर्या इति । विभक्ति10 परिणामाद्वा एतेन दण्डसमुपादानजनितकर्मणा यथा नोपलिप्यसे तथा सर्वैः प्रकारैः कुर्यास्त्वम् । इतिशब्दः परिसमाप्तौ । ब्रवीमि इति पूर्ववत् । लोकविजये द्वितीय उद्देशकः समाप्तः ॥छ। छ। १. क्षीणकर्मांशाः ख । २. पर्षदि ख ग च। ३. च इति कपुस्तके न, च धर्मं ज्ञात्वा ख । ४. समुपस्थितेषु ख । ५. त्वमात्मानं ख घ ङ। ६. द्वितीयोद्देशकः ख ङ च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy