________________
___प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । द्वितीय उद्देशकः २४७ एहि गच्छ पतोत्तिष्ठ, वद मौनं समाचर । इत्याद्याशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ [ ] इत्यादि । तदेवं ज्ञात्वा किं कर्तव्यम् ? इत्याह
[सू०७४] तं परिणाय मेहावी व सयं एतेहिं कज्जेहिं दंडं समारभेज्जा, णेव अण्णं एतेहिं कज्जेहिं दंडं 5 समारभावेज्जा णेवऽन्ने एतेहिं कज्जेहिं दंडं समारभंते समणुजाणेज्जा। ____एस मग्गे आरिएहिं पवेदिते जहेत्थ कुसले णोवलिंपेज्जासि त्ति बेमि ।
तं इत्यादि । तद् इति सर्वनाम प्रक्रान्तपरामशि । तत् शस्त्रपरिज्ञोक्तं 10 स्वकायपरकायादिभेदभिन्नं शस्त्रम्, इह वा यदुक्तमप्रशस्तगुणमूलस्थानं विषयकषाय-माता-पित्रादिकम्, तथा कालाकालसमुत्थान-क्षणपरिज्ञान-श्रोत्रादिविज्ञानप्रहाणादिकम्, तथाऽऽत्मबलाधानाद्यर्थं च दण्डसमादानं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत् मेधावी मर्यादावर्ती, ज्ञातहेयोपादेयः सन् कि कुर्यात् ? इत्याह
नेव संयमित्यादि । नैव स्वयम् आत्मना एतैः आत्मबलाधानादिकैः कार्यैः कर्तव्यैः समुत्थितैः सद्भिः दण्डं सत्त्वोपघातं समारभेत, नाप्यन्यम् अपरमेभिः कार्यैहिंसा-ऽनृतादिकं दण्डं समारम्भयेत्, तथा समारभमाणमप्यपरं योगत्रिकेण न समनुज्ञापयेत् ।
एष चोपदेशस्तीर्थकृद्भिरभिहित इत्येतत् सुधर्मस्वामी जम्बूस्वामिन- 20 माहेति दर्शयति
15
०परकायभेद० ख ग च । २. ०क्षणापरिज्ञान० ग ङ। ३. ०बलाधानार्थं ग । ४. च इति ख-च प्रती विनाऽन्यत्र नास्ति । ५. सयं इत्यादि ख च । ६. एतैः अयमात्मबला० ग । ७. समुपस्थितैः ख च । ८. ०घातमारभेत ख । ९. ०मेभिः हिंसा० ख ग ।