________________
२४६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे ___एतदुक्तं भवति–तद्बलार्थमपि प्राणिषु दण्डो न निक्षेप्तव्य इति । एवं कृपण-श्रमणार्थमपि वाच्यमिति ।
एवं पूर्वोक्तै: विरूपरूपैः नानाप्रकारैः पिण्डदानादिभिः कार्यैः दण्डसमादानम् इति दण्ड्यन्ते व्यापाद्यन्ते प्राणिनो येन स दण्ड: तस्य सम्यगादानं 5 ग्रहणं समादानम् 'तदात्मबलादिकं मम नाभविष्यद् यद्यहमेतन्नाकरिष्यम्' इत्येवं
सम्प्रेक्षया पर्यालोचनया एवं सम्प्रेक्ष्य वा भयात् क्रियते । एवं तावदिहभवमाश्रित्य दण्डसमादानकारणमुपन्यस्तम्, आमुष्मिकार्थमपि परमार्थमजानानैदण्डसमादानं क्रियत इति दर्शयति-पावमोक्खो त्ति इत्यादि । पातयति
पासयतीति वा पापम् तस्माद् मोक्षः पापमोक्षः, इति हेतोः, यस्माद् मम भविष्यति 10 इति मन्यमानः दण्डसमादानाय प्रवर्तत इति, तथाहि-हुतभुजि षड्
जीवोपघातकारिणि शस्त्रे नानाविधोपायप्राण्युपघातात्तपापविध्वंसनाय पिप्पलशमी-समित्तिला-ऽऽज्यादिकं शठव्युद्ग्राहितमतयो जुह्वति, तथा पितृपिण्डदानादौ बस्तादिमांसोपस्कृतभोजनादिकं द्विजातिभ्य उपकल्पयन्ति, तद्भुक्तशेषानुज्ञातं
स्वतोऽपि भुञ्जते । तदेवं नानाविधैरुपायैरज्ञानोपहतबुद्धयः पापमोक्षार्थ 15 दण्डोपादानेन तास्ताः क्रियाः प्राण्युपघातकारिणीः समारभमाणा अनेक
भवशतकोटीदुर्मोचमघमेवोपाददत इति । किञ्च___अदुवा इत्यादि । पापमोक्ष इति मन्यमानो दण्डमादत्त इत्युक्तम् । अथवा आशंसनम् आशंसा अप्राप्तप्रापणाभिलाषः तदर्थं दण्डसमादानमादत्ते, तथाहिममैतत् परुत्परारि वा प्रेत्य वोपस्थास्यते इत्याशंसया क्रियासु प्रवर्तते, राजानं 20 वाऽर्थाशाविमोहितमना अवलगति, उक्तं च
आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल वयं सततं सुखानि । इत्याशया बैत विमोहितमानसानां. कालः प्रयाति मरणावधिरेव पंसाम ॥ []
१. "सयं पेहाए सपेहाए" चूर्णौ । २. ०समुपादान० ग । ३. पांसयतीति ख ग घ । ४. "सम्मोक्खो पामोक्खो' चूर्णौ । ५. यस्मात् स मम ग। ६. भविष्यतीति इत्येवं मन्य० ग ङ। ७. इत्येवं मन्य० ख च । ८. इति इति ख-चप्रत्योर्नास्ति । ९. ०घातात् पाप० ग च । १०. पिष्पल० घ ङ च । ११. ०मांसोपसंस्कृत० ख-चप्रती विना । १२. स्वतो भुञ्जते ख-चपुस्तके ऋते । १३. ०कोटि० ख च। १४. ०मेवोपाददति ख-चआदर्शाभ्यामृते । १५. वठ क, बल ख, वन घ ङ।