________________
२४४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे विणा वि लोहं इत्यादि । कश्चित् भरतादिः निःशेषतो लोभापगमात्, विनापि लोभं निष्क्रम्य प्रव्रज्यां प्रतिपद्य । पाठान्तरं वा विणइत्तु लोभं सज्वलनसंज्ञकमपि लोभं विनीय निर्मूलतोऽपनीय । एष एवम्भूतः सन्
अकर्मा अपगतघातिकर्मचतुष्टयाविर्भूतानावरणज्ञानो विशेषतो जानाति, 5 सामान्यतः पश्यति, एतदुक्तं भवति–एवम्भूतो लोभो येन तत्क्षये मोहनीयक्षयः,
मोहनीयक्षये चावश्यम्भावी घातिकर्मक्षयः, तस्मिश्च निरावरणज्ञानसद्भावः, ततोऽपि भवोपग्राहिकर्मापगम इति, अतो लोभापगमे अकर्मा इत्युक्तम् । यतश्चैवम्भूतो लोभो दुरन्तस्तद्धानौ चावश्यं कर्मक्षयस्ततः किं कर्तव्यम् ?
इत्याह10 पडिलेहाए इत्यादि । प्रत्युपेक्षणया गुण-दोषपर्यालोचनयोपपन्नः सन्,
अथवा लोभविपाकं प्रत्युपेक्ष्य पर्यालोच्य तदभावे गुणं च, लोभं नावकाङ्क्षति नाभिलषतीति । यश्चाज्ञानोपहतान्तःकरणोऽप्रशस्तगुणमूलस्थानवर्ती विषयकषायाद्यध्युपपन्नस्तस्य पूर्वोक्तं विपरीततया सर्वं सन्तिष्ठते, तथाहि-अलोभं
लोभेन जुगुप्समानो लब्धान् कामानवगाहते, लोभमनपनीय निष्क्रम्य पुनरपि 15 लोभैकमनाः सकर्मा न जानाति नापि पश्यति, अपश्यंश्चाप्रत्युपेक्षणया
ऽभिकाङ्क्षति । यच्च प्रथमोद्देशकेऽप्रशस्तगुणमूलस्थानमवाचि तच्च वाच्यमिति । आह च
__[सू०७२] अहो य रातो य परितप्पमाणे कालाकाल
समुट्ठायी संजोगट्ठी अट्ठालोभी आलुंपे सहसक्कारे विणि20 विट्ठचित्ते एत्थ सत्थे पुणो पुणो ।
१. विणाभिलोभ इत्यादि क। २. लोभमित्यादि घ ङ। ३. ०चतुष्टयः आविर्भूता० ख । ४. चावश्यं घाति० घ ङ । ५. पडिलेहए क । ६. ०स्थान-विषय० च । ७. ०कषायाध्युपपन्न० ख च, ०कषायाद्युपपन्न० ग । ८. पूर्वोक्तं सर्वं विपरीततया सन्तिष्ठते ख । ९. ०प्रशस्तमूलगुणस्थान० घ ङ । १०. वाच्यम् । आह च च । ११. च इति घप्रती नास्ति ।