________________
२४३
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । द्वितीय उद्देशकः पर्जन्यः । अतस्तं पारं>> ज्ञान-दर्शन- चारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः। ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः । कथं पुनः सम्पूर्णपारगामित्वं भवति ? इत्याह
लोभं इत्यादि । इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहिक्षपकश्रेण्यन्तर्गतस्यापगताशेषकषायस्यापि खण्डशः क्षप्यमाणोऽप्यनुबध्यत इति । अतस्तं लोभं तद्विपक्षेण अलोभेन जुगुप्समानः निन्दन् परिहरन् किं करोति ?
5
इत्याह
लद्धे इत्यादि । लब्धान् प्राप्तान् इच्छा-मदनरूपान् कामान् नाभिगाहते न सेवते । यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान् न भवति ब्रह्मदत्तामन्त्रितचित्रवदिति । प्रधानान्त्यलोभपरित्यागेन चोपसर्जनाधस्तनपरित्यागो द्रष्टव्यः, तद्यथा - क्रोधं क्षान्त्या जुगुप्समानः, मानं मार्दवेन, मायामार्जवेन इत्याद्यप्यायोज्यम् । लोभोपादानं तु सर्वकषायप्राधान्यख्यापनार्थम्, तथाहि–तत्प्रवृत्तः साध्या - ऽसाध्यविवेकविकलः कार्या - ऽकार्यविचाररहितः सन्नर्थैकदत्तदृष्टिः पापोपादानमास्थाय सर्वोः क्रिया अधितिष्ठतीति, तदुक्तम्—
धावेइ रोहणं तरइ सायरं भमइ गिरिणिगुंजेसुं । मारेइ बंधवं पहु पुरिसो जो होइ धणलुद्धो ॥ अडइ बहुं वह भरं सहइ छुहं पावमायरइ धो । कुल - सील - जाइपच्चट्ठिइं च 'लोभद्दुओ चयइ ॥ [
] इत्यादि । तदेवं कुतश्चिन्निमित्तात् सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः । अन्यस्तु लोभं विनाऽपि प्रव्रज्यां प्रतिपद्यत इति दर्शयति
१. पर्जन्यः इति कपुस्तके नास्ति । २. अतस्तत्पारं ख- चप्रती विना । ३. एतन्मध्यगः पाठः खआदर्शे नास्ति । ४. ०गामित्वं च भवति ? च । ६. ० स्यापगतशेष० च । ६. क्षिप्यमाणो० ख च । ७. लद्धे कामे इत्यादि ख च । ८. ०रूपादीम्न (न्) कामान् क । ९. नासेवते ग । १०. ०कषायप्रधानख्या ० ग । ११. ०ख्यापनार्थमुपाददे, तथाहि कप्रतिमृते । १२. ० विवेकरहितः कार्या ० ख । १३. ०णिउंजेसु ख च । १४. धिट्टो ग । १५. ०जायपच्चयठिइं ग ड ० जाइपच्चयधिइं य ०जायपच्चयथिइं च । १६. लोभुद्दुओ च ।
10
15
20