________________
२४२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
नो हव्वाए नो पाराए, यो हि मध्येमहानदीपूरं निमग्नो भवत्यसो नारातीयतीराय नापि पारेमहानदीपूरमिति, एवमत्रापि कुतश्चिन्निमित्तात् त्यक्तगृहगृहिणी-पुत्र-धन-धान्य-हिरण्य-रत्न-कुप्य-दासी-दासादिविभव आकिञ्चन्यं
प्रतिज्ञाय आरातीयतीरदेश्याद् गृहवाससौख्यान्निर्गतः सन् नो हैव्वाए त्ति भवति, 5 पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमाभावे तत्क्रियाया विफलत्वात् नो पाराए त्ति भवति उभयतो मुक्तबन्धना मुक्तोलीवोभयभ्रष्टो न गृहस्थो नापि प्रव्रजित इत्युक्तं भवति, उक्तं च
इन्द्रियाणि न गुप्तानि लालितानि न वेच्छया ।
मानुष्यं दुर्लभं प्राप्य न भुक्तं न विशोषितम् ॥ [ ] इति । 10 ये पुनरप्रशस्तरतिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किम्भूता भवन्ति ? इत्याह
[सू०७१] विमुक्का हु ते जणा जे जणा पारगामिणो लोभमलोभेणं दुगुंछमाणो लद्धे कामे णाभिगाहति । विणा
वि लोभं निक्खम्म एस अकम्मे जाणति पासति, पडिलेहाए 15 णावकंखति, एस अणगारे त्ति पवुच्चति ।।
विमुक्का इत्यादि । विविधम् अनेकप्रकारं द्रव्यतो धन-स्वजनानुषङ्गाद् भावतो विषय-कषायादिभ्योऽनुसमयं मुच्यमाना एव ‘भाविनि भूतवदुपचाराद्' मुक्ताः विमुक्ताः ते जनाः ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो
भवन्ति, पारः मोक्षः संसारार्णवतटवृत्तित्वात् तत्कारणानि ज्ञान-दर्शन20 चारित्राण्यपि पार इति । भवति हि तादर्थ्यात् ताच्छब्द्यं यथा-तन्दुलान् वर्षति
१. "हव्वं गारुहत्थं पकामकामभोगित्तं, तं तेसिं अदढचित्ताणं ण भवति । पारं संजमो, तत्थ वि ते ण भवंति । ते उभयतो मुक्का ण गिहत्था ण पव्वइता भवंति ।" चूर्णौ । २. ०पूरनिमग्नो ख । ३. ०पूर एवमिहापि ख, ०पूरमिति । एवमिहापि च । ४. विभवं ग । ५. गृहपाशसौख्या० क । ६. हव्वाइ त्ति ख । ७. ०भावेन क्रियाया घ ङ । ८. मुत्कोली ग, मुक्ताली घ ङ , “मुक्तोली इति मोट्टा [?]'' जै०वि०प० "उद्दे० २-मुक्तोली मोट्टा" स०वि०प० । ९. इति । उक्तं च ग च । १०. न चेच्छया क घ ङ च नेच्छया ग ।