________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । द्वितीय उद्देशकः २४१ अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः ॥ [ ] इत्यादि ।
तदेवमवाप्तचारित्रोऽपि कर्मोदयात् परीषहोदये कृतलिङ्गपश्चाद्भावतामवलम्बत इत्युक्तम् । अपरे तु स्वरुचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थं जिघृक्षवः किल वयं संसारोद्विग्ना मुमुक्षवस्तेषु तेष्वारम्भविषयाभिष्वङ्गेषु प्रवर्तन्त 5 इति दर्शयति___अपरिग्गहा इत्यादि । परि समन्ताद् मनो-वाक्-कायकर्मभिर्गृह्यत इति परिग्रहः, स येषां नास्तीत्यपरिग्रहाः, 'एवम्भूता वयं भविष्यामः' इति शाक्यादिमतानुसारिणः स्वयूथ्या वा समुत्थाय चीवरादिग्रहणं प्रतिपद्य ततो लब्धान् कामान् अभिगाहन्ते सेवन्ते, तिब्यत्ययेन चैकवचनमिति । अत्र चान्त्यव्रतो- 10 पादानात् शेषाण्यपि ग्राह्याणि-अहिंसका वयं भविष्याम एवममृषावादिन इत्याद्यायोज्यम् ।
तदेवं शैलूषा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषान् बिभ्रति, उक्तं चस्वेच्छाविरचितशास्त्रैः प्रव्रज्यावेषधारिभिः क्षुद्रैः ।
15 नानाविधैरुपायैरनाथवन्मुष्यते लोकः ॥ [
] इत्यादि । तदेवं प्रव्रज्यावेषधारिणो लब्धान् कामानवगाहन्ते, तल्लाभार्थं च तदुपायेषु प्रवर्तन्ते इत्याह
अणाणाए इत्यादि, अनाज्ञया स्वैरिण्या बुद्ध्या मुनय इति मुनिवेषविडम्बिनः कामोपायान् प्रत्युपेक्षन्ते कामोपायारम्भेषु पौन:पुण्येन लगन्तीति, 20 आह च-एत्थ इत्यादि, अत्र अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौन:पुण्येन सन्नाः विषण्णा निमग्नाः पङ्कावमग्ना नागा इवात्मानमाक्रष्टुं नालमिति, आह च
१. मोहादिभ्यो० ख । २. कर्मोदयाङ्गीकृतलिङ्गपश्चाद्भा० ग । ३. ०र्लोकं जिघृ० ख, ०र्लोकार्थं क । ४. संसारादुद्विग्ना ख च । ५. परि: क-गप्रती ऋते । ६. इत्यप्यायोज्यम् ख, इत्याद्यप्यायोज्यम् ग घ च । ७. अणाणाएत्यादि घ ङ। ८. इत्थ घ ङ। ९. विषण्णा इति ख-गप्रत्योर्न विद्यते ।