SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २४० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे ज्ञानं भूरि यथार्थवस्तुविषयं स्वस्य द्विषो बाधकं, रागारातिशमाय हेतुमपरं युङ्क्ते न कर्तृ स्वयम् । दीपो यत् तमसि व्यनक्ति किमतो रूपं स एवेक्षतां, सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः ॥ [ ] तथेदमपि भवतो न कर्णविवरमगाद् यथाबलवानिन्द्रियग्राम: पण्डितोऽप्यत्र मुह्यति ॥ [ ] इति । अतो यत्किञ्चिदेतत् । अथवा नारत्यापन्न एवैवमुच्यते, अपि त्वयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति । संयमारतिनिवृत्तश्च सन् कं गुणमवाप्नोति ? इत्याह-खणंसि मुक्के । 10 परमनिरुद्धः कालः क्षणः पट्टशाटिकापाटनदृष्टान्तसमयप्रसाधितः, तत्र मुक्तः । विभक्तिपरिणामाद् वा क्षणेन अष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतवदिति । ये पुनरनुपदेशवर्तिनः कण्डरीकाद्यास्ते चतुर्गतिक संसारान्तर्वतिनो दुःखसागरमधिवसन्तीत्याह च-अणाणाए इत्यादि । आज्ञाप्यत इत्याज्ञा हिता15 ऽहितप्राप्ति-परिहाररूपतया सर्वज्ञोपदेशः, तद्विपर्ययोऽनाज्ञा, तया अनाज्ञया सत्या स्पृष्टाः परीषहोपसर्गः । अपिशब्दः सम्भावनायाम्, स च भिन्नक्रमः, निवर्तन्त इत्यस्मादनन्तरं द्रष्टव्यः । एके मोहनीयोदयात् कण्डरीकादयः, न सर्वे । संयमात् समस्तद्वन्द्वो पशमरूपाद् निवर्तन्ते । अपि इति सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः । किम्भूताः सन्तो निवर्तन्ते ? इत्याह-मन्दाः जडा 20 अपगतकर्तव्या-ऽकर्तव्यविवेकाः । कुत एवम्भूताः ? यतो मोहेन प्रावृताः मोह: अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृताः गुण्ठिताः, उक्तं च १. "हेतुम् इति वैराग्यादि'' जै०वि०प० । २. ०पि न भवतः कर्ण० ख च । ३. ०मगमद् च । ४. क्षण: जरत्पट्ट० ग च । ५. ०र्वा विमुक्तः स्नेहाभिष्वङ्गादिभिर्मुक्तः ख । ६. भरतादिवदिति च । ७. संसारवर्तिनो च । ८. ०मभिवसन्तीत्याह-अणाणाए ख । ९. अनाज्ञया इति ग-चप्रत्योनास्ति । १०. ०न्मोहोदयादित्यपि० ख । ११. अवगुण्ठिताः ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy