________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । द्वितीय उद्देशकः २३९ विनेयसुखप्रतिपत्त्यर्थं द्वितीयोद्देशकग्रहणमिति । कश्चित् कण्डरीकदेशीयः संयमे सप्तदशभेदभिन्ने अदृढः शिथिलो मोहनीयोदयाद् अरत्युद्भवाद् भवेत्, मोहनीयोदयोऽप्याध्यात्मिकैर्दोषैर्भवेत्, ते चाध्यात्मिका दोषा अज्ञान[कर्म ?]लोभादयः, आदिशब्दाद् इच्छा-मदनकामानां परिग्रहः, मोहस्याज्ञानलोभ-कामाद्यात्मकत्वात्, तेषां चाध्यात्मिकत्वादिति गाथार्थः ॥१९८॥ 5
ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा-संयमारतिमपवर्तेत, मेधावी चात्र विदितसंसारस्वभावो विवक्षितः, यश्चैवम्भूतो नासावरतिमान्, तद्वांश्चेद् न विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधः, छाया-ऽऽतपयोरिव नैकत्रावस्थानम्, उक्तं चतज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः ।
10 तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ? ॥ [ ] इत्यादि ।
यो ह्यज्ञानी मोहोपहतचेताः स विषयाभिष्वङ्गात् संयमे सर्वद्वन्द्वप्रत्यनीके रत्यभावं विदध्यात्, आह च
अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा ।। विद्वच्चित्तं भवति हि महन्मोक्षमार्गकतानं, नाल्पस्कन्धे विटपिनि कषत्यंसभित्तिं गजेन्द्रः ॥ [ ]
नैतन्मृष्यामहे, यतो ह्यवाप्तचारित्रस्यायमुपदेशो दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते तत्कार्यत्वाच्चारित्रस्य । न च ज्ञाना-ऽरत्योर्विरोधः, अपि तु रत्यरत्योः । ततश्च संयमगता रतिरेवारत्या बाध्यते, न ज्ञानम् । अतो ज्ञानिनोऽपि 20 चारित्रमोहनीयोदयात् संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव बाधकम्, न संयमारतेः, तथा चोक्तम्
15
१. मोहोदयो० ख च। २. चाध्यात्मदोषा ग घ ङ। ३. आदिग्रहणाद् ख च । ४. ०कामात्मक० क घ ङ। ५. यश्चैवं नासा० ग । ६. विरोधात् छाया० क-खप्रती विना । ७. मोहनीयोपहत० क । ८. शक्ति च । ९. महामोक्ष० ख च । १०. यतोऽवाप्त० ख ।