________________
२३८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
द्युत्थापितां स इत्यरतिमान् मेधावी विदितासारसंसारस्वभावः सन् आवर्तेत अपवर्तेत निवर्तयेदित्युक्तं भवति || || संयमे चारतिर्न विषयाभिष्वङ्गरतिमृते कैण्डरीकस्येवेति । अत इदमुक्तं भवति - विषयाभिष्वङ्गे रतिं निवर्तेत । निवर्तनं चैवमुपजायते—यदि दशविधचक्रवालसामाचारीविषया रतिरुत्पद्यते पौण्डरीक5 स्येवेति । ततश्चेदमप्युक्तं भवति - संयमे रतिं कुर्वीत, तद्विहितरतेस्तु न किञ्चिद्वाधायै नापीहाऽपरसुखोत्तरबुद्धिरिति आह च
10
15
क्षितितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ तणसंथारनिसण्णो वि मुणिवरो भट्टराग-मय-मोहो ।
जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टी वि ? ॥ [ ] इत्यादि 1 अत्र हि चारित्रमोहनीयक्षयोपशमाद् अवाप्तचारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते । तच्चावधावनं संयमाद् यैर्हेतुभिर्भवति तान् निर्युक्तिकारो गाथयाऽऽचष्टे
१४
बिइउसे अदढो उ संजमे कोइ होज्ज अरईए । अन्नाण-कम्म-लोभादिएहिँ अज्झत्थदोसेहिँ ॥१९८॥
१७
“ लोगविजयस्स निज्जुती || ←
१८
बीउसे ० गाहा । इह हि प्रथमोद्देशके बयो नियुक्तिगाथा अस्मि - स्त्वियमेकैवेत्यतो मन्दबुद्धेः स्यादारेका यथा - इयमपि तत्रत्यैवेति, अतो
१. " आउट्टे जं भणितं होइ - णियत्तेहि" चूर्णौ । २. अपवर्तेत इति पाठ: ख-ग-प्रतिषु नास्ति । ३. विषयाभिष्वङ्गमृते च । ४. दृश्यतां ज्ञाताधर्मकथाङ्गे एकोनविंशतितमं कण्डरीकपौण्डरीकज्ञातम् । ५. विषयाभिष्वङ्गतिं ङ । ६. ततश्चेदमुक्तं क घ ङ । ७. संयमरतिं ग । ८. च इति घपुस्ते नास्ति । ९ प्रान्तभिक्षाशनं च । १०. वि० ॥ इत्यादि क ग । ११. मोत्तिसुहं
१२. इत्यादि च । अत्र घ ङ च । १३. तदुदयाऽवदिधा० क । १४. बितिउद्देसे ञ । १५. य ञ । १६. " इयं गाथा द्वि० ऽध्य० द्वि० उद्दे० । तृ० च०- पं० - पष्ठोद्देशकानां निर्युक्तिर्नास्ति । " ठटिप्पणी । १७. एतच्चिन्हान्तर्वर्ती पाठ: ख-छ-जप्रतिषु नास्ति, एतच्चिन्हमध्यस्थपाठस्थाने च झआदर्श द्वितीयोद्देशकं ( कः । ) द्वितीयमध्ययनं समाप्तः ( प्तम् ? ) ॥ इति पाठ: प्राप्यते । १८. गाहा । अत्र च प्र० ख ङ । १९ ०मेवैकेत्यतो खपुस्तकाद्विना ।
→←