________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । द्वितीय उद्देशकः २३७
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः-इह विषय-कषाय-मातापित्रादिलोकविजयेन मोक्षावाप्तिहेतुभूतं चारित्रं यथा सम्पूर्णभावमनुभवति एवंरूपोऽध्ययनार्थाधिकार: प्राग् निरदेशि, तत्र मातापित्रादिलोकविजयेन रोग-जराधनभिभूतचेतसाऽऽत्मार्थः संयमोऽनुष्ठेय इत्येतत् प्रथमोद्देशकेऽभिहितम्, इहापि तस्मिन्नेव संयमे वर्तमानस्य कदाचिन्मोह- 5 नीयोदयाद् अरतिः स्यात्, अज्ञान-कर्म-लोभोदयाद्वाऽध्यात्मदोषेण संयमे न दृढत्वं भवेदित्यतोऽरत्यादिव्युदासेन यथा संयमे दृढत्वं भवति तथाऽनेन प्रतिपाद्यते । अथवा यथाऽष्टप्रकारं कर्मापहीयते तथाऽस्मिन्नध्ययने प्रतिपाद्यते इत्यध्ययना-र्थाधिकारेऽभ्यधायि, तच्च कथं क्षीयते ? इत्याह
[ सू०६९] अरतिं आउट्टे से मेधावी खणंसि मुक्के। 10 ___ [सू०७० ] अणाणाए पुट्ठा वि एगे णियटुंति मंदा मोहेण पाउडा । 'अपरिग्गहा भविस्सामो' समुट्ठाए लद्धे कामेऽभिगाहति । अणाणाए मुणिणो पडिलेहेंति । एत्थ मोहे पुणो पुणो सण्णा णो हव्वाए णो पाराए ।
अरई आउट्टे से मेहावी । अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स 15 चायम्-आयटुं समणुवासेज्जासि आत्मार्थं संयमं सम्यक् कुर्यात्, तत्र कदाचिदरत्युद्भवो भवेत् तदर्थमाह-अरई इत्यादि । परम्परसूत्रसम्बन्धस्तु खणं जाणाहि पंडिए ! क्षणं चारित्रावसरमवाप्यारतिं न कुर्यादित्याह-अरई इत्यादि । आदिसूत्रसम्बन्धस्तु सुयं मे आउसं ! तेणं भगवया एवमक्खायं, किं तत् 20 श्रुतम् ? इत्याह-अरई आउट्टे से मेहावी । रमणं रतिः, तदभावः अरतिः, तां पञ्चविधाचारविषयां मोहोदयात् कषायाभिष्वङ्गजनितां माता-पितृ-कलत्रा
१. द्वितीयस्य व्याख्या च । २. अरई ग । ३. ०सि त्ति बेमि आत्मार्थं ख । ४. अरई ग च । ५. अरइमित्यादि ख, अरई च । ६. सुतं च । ७. अरयी क । ८. कषायाभिषङ्ग च। ९. ०कलत्राद्युत्थापितां कप्रतिमृते ।