SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २३६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तत् तथा । ‘समनुवासये:' इति वैस निवासे [पा०धा० १००५] इत्येतस्माद्धेतुमण्णिजन्ताल्लिट्सिप्, सम्यग् यथोक्तानुष्ठानेन अनु पश्चादैनभिक्रान्तं वयः सम्प्रेक्ष्य क्षणम् अवसरं प्रतिपद्य श्रोत्रादिविज्ञानानां चाऽप्रहीणतामधिगम्य तत आत्मार्थं समनुवासयेः आत्मनि विदध्याः । अथवा 'अर्थवशाद् विभक्ति5 पुरुषपरिणामः' इति कृत्वा तेन वाऽऽत्मार्थेन ज्ञान-दर्शन- चारित्रात्मकेनात्मानं समनुवासयेत् भावयेद् रञ्जयेत्, आयतार्थं वा मोक्षार्थं सम्यग् अपुनरागमनेन अनु इति यथोक्तानुष्ठानात् पश्चादात्मना समनुवासयेत् अधिष्ठापयेत् । इतिः परिसमाप्तौ । ब्रवीमि इति सुधर्मस्वामी जम्बूस्वामिनमिदमाह यद् भगवता वर्धमानस्वामिनाऽर्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मीति । ॥छ। लोकविजयस्य प्रथम उद्देशकः समाप्तः ॥छ। 10 १. समनुवासयेत् क च । २. वसु ख । ३. इत्यस्मा० ख च । ४. ०दनतिक्रान्तं घ ङ । ५. वाऽ० ग च । ६. ०मवगम्य ग । ७. चाऽऽ० ग ङ च । ८. मोक्षाख्यं कपुस्तकमृते । ९. ०दात्मानं ग । १० इति ख-घप्रती विना । ११. वीरवर्द्धमान० ग, श्रीवर्धमान० घ ङ । १२. ० स्वामिनाऽभ्यधायि तदेवाहं सूत्रतो वच्मीति ख । १३. द्वितीयाध्ययनस्य प्रथमोद्देशक इति ख च लोकविजयस्य इति पाठः कआदर्श एव ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy