________________
10
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २३५ पूर्वकरणेन भित्त्वा मिथ्यात्वस्यान्तरकरणं विधायानिवृत्तिकरणेन सम्यक्त्वमवाप्नोति । तत ऊवं क्रमेण क्षीयमाणे कर्मणि प्रवर्धमानेषु कण्डकेषु देशविरत्यादेवसर इति ।। ___ नोकर्मभावक्षणस्तु आलस्य-मोहा-ऽवर्णवाद-स्तम्भाद्यभावे सम्यक्त्वाद्यवाप्त्यवसर इति । आलस्यादिभिस्तूपहतो लब्ध्वाऽपि संसारलङ्घनक्षमं 5 मनुष्यभवं बोध्यादिकं नाप्नोतीति, उक्तं च
आलस्स-मोह-ऽवण्णा थंभा कोहा पमाय किवणत्ता । भय सोगा अण्णाणा वक्खेव कुतूहला रमणा ॥ एएहिँ कारणेहिं लक्ष्ण सुदुलहं पि माणुस्सं । न लहइ सुई हियकरिं संसारुत्तारणिं जीवो छ॥ [ ]
तदेवं चतुर्विधोऽपि क्षण उक्तः, तद्यथा-द्रव्यक्षणः जङ्गमत्वादिविशिष्टं मनुष्यजन्म, क्षेत्रक्षणः आर्यक्षेत्रम्, कालक्षणः धर्मचरणकालः, भावक्षणः क्षयोपशमादिरूप इति । एवम्भूतमवसरमवाप्यात्मार्थं समनुवासयेदित्युत्तरेण सम्बन्धः ।। किञ्च
जाव इत्यादि । यावदस्य विशरारोः कायापशदस्य श्रोत्रविज्ञानानि जरसा 15 रोगेण वा अपरिहीनानि भवन्ति, एवं नेत्र-घ्राण-रसन-स्पर्शनविज्ञानानि न विषयग्रहणस्वभावतया मान्द्यं प्रतिपद्यन्ते, इत्येतैः विरूपरूपैः इष्टा-ऽनिष्टरूपतया नानारूपैः प्रज्ञानैः प्रकृष्टैनैिरपरिक्षीयमाणैः सद्भिः किं कुर्यात् इत्याह
आयर्ल्ड इत्यादि । आत्मनोऽर्थः आत्मार्थः, स च ज्ञान-दर्शन-चारित्रात्मकः, अन्यस्त्वनर्थ एव । अथवाऽऽत्मने हितं प्रयोजनमात्मार्थम्, तच्च ) चारित्रानुष्ठानमेव । अथवाऽऽयतः अपर्यवसानाद् मोक्ष एव, स चासावर्थश्वायतार्थः, अतस्तम्, यदि वाऽऽयत: मोक्षः अर्थः प्रयोजनं यस्य दर्शनादित्रयस्य
१. अत ग । २. ऊर्द्ध क-घप्रती विना । ३. सम्यक्त्वादेरवाप्त्यवसर ख च । ४. नावाजोतीति च । ५. किविणत्ता ख । ६. सोगो क। ७. स्पर्शविज्ञानानि कप्रतिमृते । ८. न इति गपुस्तके नास्ति । ९. ०रपरिहीयमाणैः ख। १०. एव । आत्मने घ ङ । ११. ०मात्मार्थः ख च । १२. अपर्यवसानो मोक्ष क ।