________________
२३४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे भावक्षणस्तु द्वेधा-कर्मभावक्षणो नोकर्मभावक्षणश्च । तत्र कर्मभावक्षण: कर्मणामुपशम-क्षयोपशम-क्षयान्यतरावाप्ताववसर उच्यते । तत्रोपशमश्रेण्यां चारित्रमोहनीय उपशमितेऽन्तर्मोहूर्तिक औपशमिकश्चारित्रक्षणो भवति । तस्यैव मोहनीयस्य क्षयेणान्तौ हूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति । 5 क्षयोपशमेने क्षायोपशमिकचारित्रावसरः, स चोत्कृष्टतो देशोनां पूर्वकोटिं यावदवगन्तव्यः ।
सम्यक्त्वक्षणस्त्वजघन्योत्कृष्टस्थितावायुषो वर्तमानस्य, शेषाणां तु कर्मणां पल्योपमासङ्ख्येयभागन्यूनान्त:सागरोपमकोटीकोटिस्थितिकस्य जन्तोर्भवति, स
चानेन क्रमेणेति-ग्रन्थिकसत्त्वेभ्योऽभव्येभ्योऽनन्तगुणया शुद्ध्या विशुद्धयमानो 10 मति-श्रुत-विभङ्गान्यतरसाकारोपयुक्तः शुद्धलेश्यात्रिकान्यतरलेश्योऽशुभकर्मप्रकृतीनां चतुःस्थानिकं रसं द्विस्थानिकतामापादयन् शुभानां च द्विस्थानिकं चतुःस्थानिकतां नयन्, बध्नंश्च ध्रुवप्रकृतीः परिवर्तमानाश्च भवप्रायोग्या बध्नन्निति । ध्रुवकर्मप्रकृतयश्चेमाः-पञ्चधा ज्ञानावरणीयं नवधा दर्शनावरणीयं मिथ्यात्वं कषायषोडशकं भयं जुगुप्सा तैजस-कार्मणशरीरे वर्ण-गन्ध-रस15 स्पर्शा-ऽगुरुलघु-उपघात-निर्माणनामानि पञ्चधाऽन्तरायम्, एताः सप्तचत्वारिंशद्
ध्रुवप्रकृतयः, आसां सर्वदा बध्यमानत्वात् । मनुष्य-तिरश्चोरन्यतरः प्रथमं सम्यक्त्वमुत्पादयन्नेता एकविंशतिं परिवर्तमाना बध्नाति, तद्यथा-देवगत्यानुपूर्वीद्वयपञ्चेन्द्रियजाति-वैक्रियशरीरा-ऽङ्गोपाङ्गद्वय-समचतुरस्रसंस्थान-पराघात-उच्छासप्रशस्तविहायोगति-त्रसादिदशक-सातावेदनीय-उच्चैर्गोत्ररूपा इति । देव20 नारकास्तु मनुष्यगत्यानुपूर्वीद्वय-औदारिकद्वय-प्रथमसंहननसहितानि शुभानि
बध्नन्ति । तमतमानारकास्तु तिर्यग्गत्यानुपूर्वीद्वय-नीचैर्गोत्रसहितानीति । तदध्यवसायोपपन्नः सन्नायुष्कमबध्नन् यथाप्रवृत्तेन करणेन ग्रन्थिमासाद्या
१. ०ऽन्तर्मोहूर्तिकौप० ग । २. ०न तु क्षायो० क-खआदी विना । ३. न्यूनान्त्यसागरो० घ-ङप्रती ऋते । ४. ०लेश्यासु च शुभ० ख । ५. द्विस्थानतां ख । ६. ०शरीरवर्ण० ख च । ७. ०मुपादयन्नेक० ख, ०मुपपादयन्नेता च । ८. एकविंशतिः च । ९. गति-प्रशस्तत्रसादि० घ ङ । १०. शुद्धानि क। ११. तदध्यवसाय: सन्ना० ख ।