________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः मनुष्ठेयमुतान्येनापि ? अपरेणापि लब्धावसरेणात्महितमनुष्ठेयमित्येतद् दर्शयति
खणं जाणाहि पंडिए ! क्षण: अवसरो धर्मानुष्ठानस्य स चार्यक्षेत्रसुकुलोत्पत्त्यादिकः, परिवाद - पोषण - परिहारदोषदुष्टानां जैरा-बालभावरोगाणामभावे सति तं क्षणं जानीहि अवगच्छ पण्डित ! आत्मज्ञ ! अथवाऽवसीदन् शिष्यः प्रोत्साह्यते - हे अनतिक्रान्तयौवन ! परिवादादि - 5 दोषत्रयास्पृष्ट ! पण्डित ! द्रव्य-क्षेत्र - काल- भावभेदभिन्नं क्षणम् अवसरमेवंविधं
जानीहि अवबुध्यस्व, तथाहि
द्रव्यक्षणः द्रव्यात्मकोऽवसरो जङ्गमत्व-पञ्चेन्द्रियत्व-विशिष्टजाति-कुलरूप-बला-ऽऽरोग्या-ऽऽयुष्कादिको मनुष्यभावः संसारोत्तरणसमर्थचारित्रावाप्तियोग्यस्त्वयाऽवाप्तः, स चानादौ संसारे पर्यटतोऽसुमतो दुरापो भवति । 10 अन्यत्र तु नैतत् चारित्रमवाप्यते, तथाहि - देव-नारकभवयोः सम्यक्त्वश्रुतसामायिके एव, तिर्यक्षु च कस्यचिद् देशविरतिरेवेति ।
क्षेत्रक्षणः क्षेत्रात्मकोऽवसरो यस्मिन् क्षेत्रे चारित्रमवाप्यते । तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव, तत्राप्यर्धतृतीयद्वीपसमुद्रा:, तत्रापि पञ्चदशसु कर्मभूमिषु, तत्रापि भरतक्षेत्रमपेक्ष्यार्धषड्विंशेषु 15 जनपदेष्वित्यादिकः क्षेत्रक्षण: क्षेत्ररूपोऽवसरोऽधिगन्तव्यः । अन्यस्मिश्च क्षेत्रे आ एव सामायिके ।
२३३
कालक्षणस्तु कालरूपः क्षण: अवसरः, स चावसर्पिण्यां तिसृषु समासु सुषमदुःषमा-दु:षमसुषमा - दुःषमाख्यासु, उत्सर्पिण्यां तु तृतीय-चतुर्थाऽऽरकयोः सर्वविरतिसामायिकस्य भवति । एतच्च प्रतिपद्यमानकं प्रत्यभ्यधायि, 20 पूर्वप्रतिपन्नास्तु सर्वत्र तिर्यगूर्द्धा - ऽधोलोके सर्वासु च समासु द्रष्टव्याः ।
१. ० नापीति ? अपरेणापि क-गपुस्तके विना । २. "जरा - बाल० इति पाश्चात्यैः यथासङ्ख्येन त्रिभिः संयोगः " जै०वि०प० । ३. सति इति गतौ नास्ति । ४. ०मेवंभूतं ख च। ५. चारित्रमथवाप्यते ङ । ६. ०ऽवसरः । अन्यस्मिंश्च ख । ७. सुषमदुःषम - दुःषमसुषमदु:षमाख्यासु ख च, सुखमदुःखमा - दुःखमसुखमा दुःखमाख्यासु क । ८. प्रतिपद्यमानं च । ९. तिर्यगूर्ध्वा० घ ।