________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २३१ रोगसमुप्पाया समुप्पज्जंति । जेहिं वा सद्धि संवसति ते व णं एगदा णियगा पुचि परिहरंति, सो वा ते णियए पच्छा परिहरेज्जा । णालं ते तव ताणाए वा सरणाए वा, तुमं पि तेसिं णालं ताणाए वा सरणाए वा ।
उवादीत इत्यादि । उपादितेति अद भक्षणे [पा० धा० १०११] इत्येतस्माद् 5 उपपूर्वाद् निष्ठाप्रत्ययः, तत्र बहुलं छन्दसि [पा० ७।४।७८] इतीडागमः, उपादितम् उपभुक्तम्, तस्य शेषम् उपभुक्तशेषम्, तेन वा, वाशब्दाद् अनुपभुक्तशेषेण वा । सन्निधानं सन्निधिः, तस्य सन्निचयः सन्निधिसन्निचयः, अथवा सम्यग् निधीयते अवस्थाप्यत उपभोगाय योऽर्थः स सन्निधिः, तस्य सन्निचयः प्राचुर्यम्, उपभोग्यद्रव्यनिचय इत्यर्थः । स इह अस्मिन् संसारे एकेषाम् 10 असंयतानां संयताभासानां वा केषाञ्चिद् भोजनाय उपभोगार्थं क्रियते विधीयते इति । असावपि यदर्थमनुष्ठितोऽन्तरायोदयात् तत्सम्पत्तये न प्रभवतीत्याह
तओ से इत्यादि । ततः द्रव्यसन्निधिसन्निचयादुत्तरकालमुपभोगावसरे से तस्य बुभुक्षोः एकदा इति द्रव्य-क्षेत्र-काल-भावनिमित्ताविर्भावितवेदनीयकर्मोदये रोगसमुत्पादाः ज्वरादिप्रादुर्भावाः समुत्पद्यन्त इत्याविर्भवन्ति ।
स च तैः कुष्ठ-राजयक्ष्मादिभिरभिभूतः सन् मग्ननासिको गलत्पाणिपादोऽविच्छेदप्रवृत्तश्वासाकुलः किम्भूतो भवति ? इत्याह
जेहिं इत्यादि । यैः माता-पित्रादिभिर्निजैः सार्धं संवसति त एव वा निजाः एकदा रोगोत्पत्तिकाले पूर्वमेव तं परिहरन्ति, स वा तान् निजान् पश्चात् । परिभवोत्थापितविवेकः परिहरेत् त्यजेत्, तन्निरपेक्ष: सेडुकवत् स्यादित्यर्थः । ते 20 च स्वजनादयो रोगोत्पत्तिकाले परिहरन्तोऽपरिहरन्तो वा न त्राणाय भवन्तीति दर्शयति-नालमित्यादि पूर्ववत् । रोगाद्यभिभूतान्तःकरणेन चापगतत्राणेन च
15
१. उवादीय ख च । २. अदंप्सा भक्षणे घ ङ। ३. उपादीतम् क । ४. स इति घङ प्रत्योर्न वर्तते । ५. जेहीत्यादि ख च । ६. दर्शयितुमाह ग । ७. नालं इत्यादि ख च । ८. रोगाभिभूता० ख च । ९. ०करणेनापगत० ख ।