________________
२३० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे शिरो-नयनोदरादीनाम्, लुम्पयिता ग्रन्थिच्छेदादिभिः, विलुम्पयिता ग्रामघातादिभिः, अपद्रावयिता प्राणव्यपरोपको विष-शस्त्रादिभिः, अपद्रावयिता वा उत्रासको लोष्टप्रक्षेपादिभिः । स किमर्थं हननादिकाः क्रियाः करोति ? इत्याह
अकडं इत्यादि । अकृतम् इति यदन्येन नानुष्ठितं तदहं करिष्यामि इत्येवं 5 मन्यमानोऽर्थोपार्जनाय हननादिषु प्रवर्तते । स एवं क्रूरकर्मातिशयकारी
समुद्रलङ्घनादिकाः क्रियाः कुर्वन्नप्यलाभोदयाद् अपगतसर्वस्वः किम्भूतो भवति? इत्याह
__ जेहि वेत्यादि । वाशब्दः भिन्नक्रमः पक्षान्तरद्योतकः, यैः माता-पितृस्वजनादिभिः सार्धं संवसत्यसौ त एव वा णमिति वाक्यालङ्कारे, एकदा 10 इत्यर्थनाशाद्यापदि शैशवे वा, निजाः आत्मीया बान्धवाः सुहृदो वा पब्दि
पूर्वमेव, तं सर्वोपायक्षीणं पोषयन्ति, स वा प्राप्तेष्टमनोरथलाभः सन् तान् निजान् पश्चात् पोषयेत् अर्थदानादिना सन्मानयेदिति । ते च पोषकाः पोष्या वा तव आपद्गतस्य न त्राणाय भवन्ति इत्याह
नौलं इत्यादि । ते निजाः माता-पित्रादयः तव इत्युपदेशदानविषयापन्न 15 उच्यते त्राणाय आपद्रक्षणार्थं शरणाय निर्भयस्थित्यर्थं नालं न समर्थाः, त्वमपि तेषां त्राण-शरणे कर्तुं नालमिति ।
तदेवं तावत् स्वजनो न त्राणाय भवतीत्येतत् प्रतिपादितम् । अर्थोऽपि महता क्लेशेनोपार्जितो रक्षितश्च न त्राणाय भवतीत्येतत् प्रतिपिपादयिषुराह
[सू०६७] उवादीतसेसेण वा संणिहिसण्णिचयो 20 कज्जति इहमेगेसिं माणवाणं भोयणाए । ततो से एगया
१. ०च्छेदनादिभिः ख च । २. अवद्रावयिता ग । ३. करोति ? आह घ । ४. अकडमित्यादि घ ङ । ५. स इति क-गपुस्तकयोर्न वर्तते । ६. कुर्वन्नलाभो० क । ७. ०लाभोदयापगत० ग। ८. भवति ? आह ग । ९. जेहिं ग । १०. वा इति चप्रतौ नास्ति । ११. पूर्वं ख । १२. च ग । १३. नालमित्यादि घ ङ । १४. इत्युपदेशविषया० खप्रतिमृते । १५. न अलं समर्थाः क ग ङ । १६. अर्थोऽपि हि महता ग । १७. क्लेशेनोपात्तो कआदर्शमृते।