SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 10 प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २२९ सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् ?॥ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतक-तडिल्लताविलसितप्रतिमम् ॥ [ ] इत्यादि । किमर्थं च नो प्रमादयेत् ? इत्याह-वयो अच्चेइ त्ति, वयः कुमारादि, 5 तद् अत्येति अतीव एति याति अत्येति, अन्यच्च-जोवणं व त्ति अत्येति अनुवर्तते, यौवनं वा अत्येति अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात तदुपादानं प्राधान्यख्यापनार्थम्, धर्मा-ऽर्थ-कामानां तन्निबन्धनत्वात् सर्ववयसां यौवनं साधीयः, तदपि त्वरितं यातीति, उक्तं च नइवेगसमं चवलं च जीवियं जोवणं च कुसुमसमं । सोक्खं च जं अणिच्चं तिण्णि वि तुरमाणभोज्जाइं ॥ [ ] तद् एवं मत्वाऽहोविहारायोत्थानं श्रेय इति । ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहुमन्यन्ते, ते किम्भूता भवन्ति ? इत्याह-जीविये इत्यादि । ये तु वयोऽतिक्रमणं नावगच्छन्ति ते इह इत्यस्मिन्नसंयमजीविते प्रमत्ताः अध्युपपन्ना विषय-कषायेषु प्रमाद्यन्ति, 15 प्रमत्ताश्चहर्निशं परितप्यमानाः कालाकालसमुत्थायिनः सन्तः सत्त्वोपघातकारिणी: क्रियाः समारभन्त इति, आह च ... से हंता इत्यादि । से इत्यप्रंशस्तगुणमूलस्थानवान् विषयाभिलाषी प्रमत्तः सन् स्थावर-जङ्गमानामसुमतां हन्ता भवतीति । अत्र च बहुवचन प्रक्रमेऽपि जात्यपेक्षयैकवचननिर्देश इति । तथा छेत्ता इंति कर्ण-नासिकादीनाम्, भेत्ता 20 १. वए ख । २ जोव्वणं ख ग च, जुव्वणं घ ङ। ३. साधीयः साधुः, तदपि च । ४. जोव्वणं ख ग च, जुव्वणं घ ङ । ५. सुक्खं घ ङ। ६. ०भोजाइं क, ०भोज्जातिं ग । ७. इत्यत आह ग । ८. जीविए कआदर्शमृते । ९. इत्यस्मिन् संयम० च । १०. अभ्युपपन्ना च । ११. आह-स हंता ख । १२. से इत्या० क । १३. ०प्रशस्तमूलगुणस्थान० घ ङ। १४. ०प्रक्रमे जात्य० क घ ङ। १५. ०वचनेन निर्देश च । १६. इति ख-ग-चप्रतिषु नास्ति । १७. भेत्ता शिरो-दशनादीनाम् ख, भेत्ता नयन-शिरो-दशनादीनाम् च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy