________________
२२८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे लुंपित्ता विलुपित्ता उद्दवेत्ता उत्तासयित्ता अकडं करिस्सामि त्ति मण्णमाणे।
___ जेहिं वा सद्धि संवसति ते व णं एगया णियगा पुट्वि पोसेंति, सो वा ते णियगे पच्छा पोसेज्जा । णालं ते तव 5 ताणाए वा सरणाए वा, तुमं पि तेसिं णालं ताणाए वा सरणाए वा ।
इच्चेवमित्यादि । अथवा यत एवं ते सुहृदो नालं त्राणाय वा शरणाय वा अतः किं विदध्यादिति ? आह-इंच्चेवमित्यादि । इतिः उपप्रदर्शने ।
अप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न 10 विभूषायै, प्रत्येकं च शुभा-ऽशुभकर्मफलं प्राणिनामिति एवं मत्वा समुत्थितः
सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो इत्याश्चर्ये, विहरणं विहारः, आश्चर्यभूतो विहारः अहोविहारः यथोक्तसंयमानुष्ठानम्, तस्मै अहोविहारायोत्थितः सन् क्षणमपि न प्रमादयेद् इत्युत्तरेण सण्टङ्कः ॥छ।।
किञ्च-अंतरं चेत्यादि । अन्तरम् इत्यवसरः, तच्चार्यक्षेत्र-सुकुलोत्पत्ति15 बोधिलाभ-सर्वविरत्यादिकम् । चः समुच्चये । खलुः अवधारणे ।
'इम'मित्यनेनेदमाह-विने यस्तपः-संयमादाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदाभिधीयते-तवाऽयमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभ एवेति । अतस्तमवसरं सम्प्रेक्ष्य पर्यालोच्य धीर: सन् मुहूर्तमप्येकं ने प्रमादयेत् न प्रमादवशगो भूयादिति । सम्प्रेक्ष्य इत्यत्र 20 अनुस्वारलो पश्छान्दसत्वादिति, अन्यदप्यलाक्षणिक मेवंजातीयमस्मादेव हेतोरवगन्तव्यमिति । आन्तर्मोहूर्तिकत्वाच्च छाद्मस्थिकोपयोगस्य मुहूर्तम् इत्युक्तम्, अन्यथा समयमप्येकं न प्रमादयेद् इति वाच्यम्, तदुक्तम्
१. इच्चेवं इत्यादि ख । २. वा इति खप्रतावेव । ३. इच्चेवं इत्यादि ख । ४. ०ने । यतोऽप्रशस्त० क-चप्रती विना । ५. ०परिज्ञोक्तमूल० क ग । ६. नो क-घपुस्तके ऋते । ७. सम्बन्धः घ ङ। ८. वीर: क च । ९. नो ख च ।