________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः
२२७
एतदुक्तं भवति—जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वेति, उक्तं च
जन्म-जरा-मरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते ।
जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥ [प्रशम० गा० १५२] इत्यादि । स तु तस्यामवस्थायां किम्भूतो भवतीति आह-से ण हँस्साए इत्यादि, 5 स जराजीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वाद् न परान् हसितुं योग्यो भवतीत्यर्थः । स च समक्षं परोक्षं वा एवमभिधीयते जनै: - किं किलास्य. हसितेन हास्यास्पदस्येति । न च क्रीडायै न च लङ्घन वल्गनाऽऽस्फोटनक्रीडानां योग्योऽसौ भवति । नापि रत्यै भवति, रतिरिह विषयगता गृह्यते, सा पुनर्ललनावगूहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते -'न 10 लज्जते भवान्, न पश्यत्यात्मानम्, नावलोकयति शिरः पलितभस्मावगुण्डितम् मां दुहितृभूतामवगूहितुमिच्छति' इत्यादिवचसामास्पदत्वाद् न रत्यै भवति । न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवलीकस्तु नैव शोभते, उक्तं च
न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम् ॥ जं जं करेइ तं तं न सोहए जोव्वणे अतिक्कं । पुरिसस्स महिलियाय व एक्कं धम्मं पैमोत्तूणं ॥ [ गतमप्रशस्तमूलस्थानम् । साम्प्रतं प्रशस्तमुच्यते
]
15
[ सू०६५ ] इच्चेवं समुट्ठिते अहोविहाराए अंतरं च खलु इमं सपेहा धीरे मुहुत्तमवि णो पमादए । वओ अच्चेति 20 जोव्वणं व ।
[सू०६६ ] जीविते इह जे पमत्ता से हंता छेत्ता भेत्ता
१. इत्यादि इति खपुस्तके नोपलभ्यते । २. च ख ग । ३. किङ्गुणो ख । ४. हस्सा० इत्यादि ग च । ५. योग्यो भवति ख । ६. ०मिच्छसि ? खआदर्श विना । ७. ० वलीकः सन् नैव ख ग घ ङ ० वलीकः स नैव च । ८. प्रपञ्चताम् ग, चूर्णौ च । ९. महिलियाए एक्कं ख घ ङ च, महिलियाड़ व ग । १०. पमुत्तूणं घ ङ च । ११. ० प्रशस्तं मूल० घ ङ च ।