________________
२२६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे अयमुपचर्यमाणोऽपि वार्धक्याद् रोरुद्यते, अतस्तैरप्यवधीरितः, अन्येषामपि यथावसरे तद्भण्डनस्वभावतामाचचक्षिरे । ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजनेनावगीतो वाङ्मात्रेणापि केनचिदप्यननुवय॑मानः सुखिते दुःखितः कष्टतरामायु:शेषामवस्थामनुभवतीति ।
एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः सन् स्वकार्यैकनिष्ठाल्लोकात् परिभवमाप्नोतीति, आह
गानं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव हुसते वक्त्रं च लालायते ।
वाक्यं नैव करोति बान्धवजन: पत्नी न शुश्रूषते, 10 धिक् कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ [ ] इत्यादि ।
तदेवं जराभिभूतं पृरुषं निजाः परिवदन्ति । असावपि परिभूयमानस्तद्विरक्तचेतास्तदपवादान् जनायाचष्टे, आह च-सो वा इत्यादि । वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराजर्जरितदेहः
तान् निजाननेकदोषोदंघट्टनतया परिवदेत् निन्देत् । अथवा विद्यमानार्थतया 15 तानसाववगायति परिभवतीत्यर्थः । येऽपि पूर्वकृतधर्मवशात् तं वृद्धं न परिवदन्ति तेऽपि तद्दुःखापनयनसमर्था न भवन्तीति, आह च
नालमित्यादि । नालं न समर्थाः ते पुत्र-कलत्रादयः तव इति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति । तत्राऽऽपत्तरणसमर्थं त्राणमुच्यते,
यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितं प्लवमासाद्यापस्तरतीति । शरणं 20 पुनर्यदवष्टम्भाद् निर्भयैः स्थीयते तदुच्यते, तत् पुनर्दुर्ग पर्वतः पुरुषो वेति ।
१. अतस्तैरवधी० ख, ततस्तैरप्य० ग च । २. कथावसरे क ग घ । ३. तद्भटन० क ङ, तद्भण्टन० ख ग घ । ४. ०स्वभावमा० ख । ५. परिजनैरवगीतो ख । ६. वाङ्मात्रेणाप्यननु० ख । ७. सुखितेषु ग, “सुखिते इति शेषलोके' जै०वि०प० । ८. ०समर्थः कार्यैक० ख, ०समर्थः स्वकार्यै० ग । ९. निष्ठलोकात् क-गप्रती ऋते । १०. पराभव ख । ११. आह च ग । १२. पुरुष इति खपुस्तक एव । १३. स्तद्वयतिरिक्तचेता० घ ङ च । १४. खट्टनतः ख, ०द्धटनतया घ ङ । १५. ०नयने न समर्था भवन्तीति ख । १६. भवन्ति, च । १७. महास्रोतो० घ । १८. तदुच्यते इति कप्रतौ न वर्तते ।