________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २२५ वलिसन्ततमस्थिशेषितं, शिथिलस्नायुवृतं कैडेबरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा ? ॥ [ ]
गोपाल-बाला-ऽङ्गनादीनां च दृष्टान्तद्वारेणोपन्यस्तोऽर्थो बुद्धिमधितिष्ठतीति अतस्तदाविर्भावनाय कथानकम्-कौशाम्ब्यां नगर्यामर्थवान् बहुपुत्रो धनो नाम सार्थवाहः । तेन चैकाकिना नानाविधैरुपायैः स्वापतेयमुपार्जितम् । 5 तच्चाशेषदुःखितबन्धुजन-स्वजन-पुत्र-मित्र-कलत्रादिभोग्यतां निन्ये, ततोऽसौ कालपरिपाकवशाद् वृद्धभावमुपगतः सन् पुत्रेषु सम्यक्पालनोपचितकलाकुशलेषु समस्तकार्यचिन्ताभारं निश्चिक्षेप । तेऽपि च वयमनेनेदृशीमवस्थां नीताः सर्वजनाग्रेसरा विहिताः इति कृतोपकाराः सन्तः कुलपुत्रतामवलम्बमानाः स्वतः क्वचित् कार्यव्यासङ्गात् स्वभार्याभिस्तमैकल्यं वृद्धं प्रत्यजजागरन् । ता 10 अप्युद्वर्तन-स्नान-भोजनादिना यथाकालमखूणं विहितवत्यः। ततो गच्छत्सु दिवसेषु वर्द्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृषु जरवृद्धे च विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेषश्रोतसि सति शनैः शनैरुचितमुपचारं शिथिलतां निन्युः, असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विश्रसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षूणान्याचचक्षे । ताश्च स्वभर्तृभिश्चेखिद्यमानाः 15 सुतरामुपचारं परिहतवत्यः, सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तनभिहितवत्यः क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद् विपरीतबुद्धितयाऽपहृते, यदि भवतामप्यस्माकमुपर्यविश्रम्भस्ततोऽन्येन विश्वसनीयेन निरूपयत । तेऽपि तथैव चक्रुः । तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः । असावपि पुत्रैः पृष्टः पूर्वविरू(रु)क्षितचेतास्तथैव ता अपवदति- 20 नैता मम किञ्चित् सम्यक् कुर्वन्तीति तैश्च प्रत्ययिकवचनादवगततत्त्वैर्यथा
१. स्नायुधृतं च । २. कलेवरम् घ ङ। ३. कान्ता: कमनीयविग्रहा: ग। ४. गोपालाऽङ्गनां० क घ ङ। ५. च इति खपुस्तके नास्ति । ६. ०न-पुत्र-कलत्रा० ख, ०न-मित्र-पुत्रकलत्रा० ग. ०न-मित्र-कलत्र-पत्रादि० च। ७. ०मपागतः घ ङ। ८. निचिक्षेप ख ग च । ९ च इति कप्रतावेव । १०. "अकल्य[ म्] इति सरोगम्" जै०वि०प० । ११. प्रत्यजीजागरन् कचप्रती विना । १२. ता अमुमुद्वर्तन० घ ङ। १३. ०श्रोतसि शनैः ख । १४. चिंताभिमानेन च । १५. विस्रम्भ० क-खपुस्तके ऋते । १६. सर्वा एवं सर्वाणि ख च । १७. असौ पुत्रैः क घ ङ। १८. ०स्तथैवैता अप० घ । १९. कुर्वन्ति । तैस्तु ख च । २०. तैस्तु ग ।