________________
5
२२४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
त्रीणि वयांसि कौमार-यौवन - स्थविरत्वभेदात् उक्तं च
पिता रक्षति कौमारे, भर्ता रक्षति यौवने ।
पुत्राश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति ॥ [ मनुस्मृतौ ९ । ३] अन्यथा वा त्रीणि वयांसि बाल- मध्यत्व-वृद्धत्वभेदात्, उक्तं च
आ षोडशाद् भवेद् बालो, यावत् क्षीरान्नवर्तकः । मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्यते ॥ [
]
एतेषु च वयस्सु सर्वेष्वपि योपचयवत्यवस्था तामभिक्रान्तोऽभिक्रान्तवया इत्युच्यते । चः समुच्चये, न केवलं श्रोत्र - चक्षुः- प्राण-रसन - स्पर्शनविज्ञानैर्व्यस्तसमस्तैर्देशतः सर्वतो वा परिहीयमाणैमढ्यमापद्यते । वयश्चाभिक्रान्तं प्रेक्ष्य 10 पर्यालोच्य स इति प्राणी, खलुः इति विशेषणे, विशेषेण अत्यर्थं मौढ्यमापद्यत इति, आह च-तओ से इत्यादि । ततः इति तस्मादिन्द्रियविज्ञानापचयाद् वैयोऽतिक्रमणाद्वा स इति प्राणी एकदा इति वृद्धावस्थायां मूढभावो मूढत्वं किङ्कर्तव्यताभावमात्मनो जनयति । अथवा से तस्यासुभृतः श्रोत्रादिविज्ञानानि परिहीयमाणानि मूढभावं जनयन्तीति ।
15
स एवं वार्द्धक्ये मूढस्वभावः सन् प्रायेण लोकावगीतो भवतीत्याह-जेहिं वेत्यादि । वाशब्दः पक्षान्तरद्योतकः, आस्तां तावदपरो लोकः यैः पुत्रकलत्रादिभिः सार्धं सह संवसति त एव भार्या - पुत्रादयो णमिति वाक्यालङ्कारे एकदा इति वृद्धावस्थायाम् नियगा आत्मीया ये तेन समर्थावस्थायां पूर्वमेव पोषिताः ते तं परिवदन्ति परि समन्ताद् वदन्ति परिवदन्ति यथा - अयं न म्रियते 20 नापि मञ्चकं ददाति । यदि वा परिवदन्ति परिभवन्तीत्युक्तं भवति । अथव किमनेन वृद्धेन ? इत्येवं परिवदन्ति । न केवलमेषाम्, तस्यात्माऽपि तस्यामवस्थायामवगीतो भवतीति, आह च
१. तामतिक्रान्तवया क ख तामभिक्रान्तोऽतिक्रान्तवया उच्यते ग, तामतिक्रान्तोऽतिक्रान्तवया च । २ ० श्चातिक्रान्तं घआदर्शमृते । ३. वयोऽपक्रम ० ग । ४ भवतीत्याह च ख । ५. ०म् ते नियगा ख ०म् निजका ग । ६. परिः ग घ । ७. वदन्ति यथा खप्रत्या विना । ८. न च क घ ङ । ९. इत्येवं वदन्ति क घ ङ ।