________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २२३ कृष्णशुक्लमण्डलम्, बाह्यमपि पत्रपक्ष्मद्वयादि । एवं शेषेष्व-प्यायोजनीयमिति । भावेन्द्रियमपि लब्ध्युपयोगभेदाद् द्विधा । तत्र लब्धिः ज्ञान-दर्शनावरणीयक्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते तन्निमित्त आत्मनो मन:साचिव्यादर्थग्रहणं प्रति व्यापार उपयोग इति । तदत्र सत्यां लब्धौ निर्वृत्त्युपकरणोपयोगाः, सत्यां च निर्वृत्तावुपकरणोपयोगौ, सत्युप- 5 करण उपयोग इति । एतेषां च श्रोत्रादीनां कदम्बक-मसूर-कलम्बुकापुष्प-क्षुरप्रनानासंस्थानताऽवगन्तव्येति । विषयश्च श्रोत्रेन्द्रियस्य द्वादशभ्यो योजनेभ्य आगतं शब्दं गृह्णाति, चक्षुरप्येकविंशतिषु लक्षेषु सातिरेकेषु व्यवस्थितं प्रकाशकम्, प्रकाश्यं तु सातिरेकयोजनलक्षव्यवस्थितं रूपं गृह्णाति, शेषाणि तु नवभ्यो योजनेभ्य आगतं स्वविषयं गृह्णन्ति, जघन्यतस्त्वङ्गलासङ्ख्येयभागविषयत्वं 10 सर्वेषाम् । अत्र च सोयपरिन्नाणेहिं परिहायमाणेहीत्यादि य उत्पत्तिं प्रति व्यत्ययेनेन्द्रियाणामुपन्यासः स एवमर्थं द्रष्टव्यः-इह संज्ञिनः पञ्चेन्द्रियस्योपदेशदानेनाधिकृतत्वाद् उपदेशश्च श्रोत्रेन्द्रियविषय इति कृत्वा, तत्पर्याप्तौ च सर्वेन्द्रियपर्याप्तिः सूचिता भवति ।
श्रोत्रादिविज्ञानानि च वयोऽतिक्रमे परिहीयन्ते, तदेवाह-अभिकंत- 15 मित्यादि । अथवा श्रोत्रादिविज्ञानैरपचितैः करणभूतैः सद्भिः अभिकंतं च खलु वयं स पेहाए । तत्र प्राणिनां कालकृता शरीरावस्था यौवनादिः वयः तज्जरामभि मृत्युं वा क्रान्तम् अभिक्रान्तम् । इह हि चत्वारि वयांसि कुमार-यौवन-मध्यमवृद्धत्वानि, उक्तं च
प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् ।। तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ॥ [ ] तत्राऽऽद्यवयोद्वयातिक्रमे जराभिमुखमभिक्रान्तं वयो भवति । अथवा
१. तन्निमित्तमात्मनो घ । २. कदम्ब-मसूर० ख । ३. "कलम्बुकापुष्पं काहलिका" स०वि०प० । ४. श्रोत्रस्य ख । ५. ०विंशतिलक्षेषु ख । ६. प्रकाशम् ग घ, “प्रकाशम् इति आदित्यादि'' जै०वि०प० । ७. प्राकाश्यं च । ८. ०लक्षस्थितं घ ङ च । ९. सोयपन्नाणेहिं घङपुस्तके विना । १०. ०माणेहिं तीत्यादि ख । ११. प्रतिपत्तव्यः ग । १२. सर्वेन्द्रियसम्प्राप्तिः ख । १३. ०वयोऽतिक्रमे ख ङ। १४. जरामभिमुख० क घ ङ। १५. अन्यथा वा च ।