________________
10
२२२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तथाहि-येनैवेन्द्रियेण सह मनः संयुज्यते तदेवात्मीयविषयग्रहणाय प्रवर्तते, नेतरदिति । ननु च दीर्घशष्कुलीभक्षणादौ पञ्चानामपि विज्ञानानां यौगपद्येनोपलब्धिरनुभूयते ? नैतदस्ति, केवलिनोऽपि द्वावुपयोगौ न स्तः, आस्तां तावदारातीयभागदर्शिनः पञ्चोपयोगा इति, एतच्चान्यत्र न्यक्षेण प्रतिपादितमिति नेह 5 प्रतायते । यस्तु यौगपद्येनानुभवाभासः स द्राग्वृत्तित्वाद् मनसो भवतीति, उक्तं च
आत्मा सहैति मनसा मन इन्द्रियेण, स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः। योगोऽयमेव मनसः किमगम्यमस्ति ? यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ॥ [
इह चायमात्मा इन्द्रियलब्धिमान् आदित्सितजन्मोत्पत्तिदेशे समयेनाहारपर्याप्ति निर्वर्तयति, तदनन्तरमन्तर्मुहूर्तेन शरीरपर्याप्तिम्, ततोऽपीन्द्रियपर्याप्ति तावतैव कालेन, तानि च पञ्चेन्द्रियाणि स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्राणीति । तान्यपि द्रव्य-भावभेदात् प्रत्येकं द्विविधानीति । तत्र द्रव्येन्द्रियं निर्वृत्त्युप
करणभेदाद् द्विधा । निर्वृत्तिरप्यान्तर-बाह्यभेदाद् द्विधैव । निर्वर्त्यत इति निर्वृत्तिः । 15 केन निर्वर्त्यते ? कर्मणा । तत्रोत्सेधाङ्गलासङ्ख्येयभागप्रमितानां शुद्धानामात्म
प्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानेनावस्थिता या वृत्तिरभ्यन्तरा निर्वृत्तिः, तेष्वेवात्मप्रदेशेष्विन्द्रियव्यपदेशभाक्षु यः प्रतिनियतसंस्थानो निर्माणनाम्ना पुद्गलविपाकिना वर्धकिसंस्थानीयेनाऽऽरचितः कर्णशष्कुल्यादिविशेषः,
अङ्गोपाङ्गनाम्ना च निष्पादित इति बाह्यनिर्वृत्तिः । तस्या एव निर्वृत्तेद्विरूपाया, 20 येनोपकारः क्रियते तदुपकरणम्, तच्चेन्द्रियकार्यसमर्थम्, सत्यामपि [बाह्य-] निर्वृत्तावनुपहतायां [च] मसूराद्याकृतिरूपायां [आन्तर]निर्वृत्तौ तस्योपघाताद् न पश्यति । तदपि निर्वृत्तिवद् द्विधा–बाह्यमाभ्यन्तरं चेति । तत्राभ्यन्तर-मक्ष्णस्तावत्
१. विषयगुणग्रहणाय घ । २. द्वावप्युपयोगौ क घ । ३. एतच्चान्यत्रान्यक्षेण क ड एतच्च न्यक्षेण ख, एतच्चान्येक्ष( न्यक्षेण ग । ४. नानभवभासः ग । ५. ०त्पत्तिप्रदेशे ख। ६. च इति क-खप्रत्योर्नास्ति । ७. ०व्यपदेशभाग् यः ख घ ङ । ८. तु ख-चपुस्तके विना। ९. तस्यामपि ख । १०. ०हतायामपि मसूरा० ख घ ङ । ११. मसूराकृतिक ङपुस्तकमृते । १२. "तस्य इति उपकरणस्य" जै०वि०प० । १३. द्विधा । तत्रा० कप्रति विना ।