________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशक:- २२१ श्रोत्रविज्ञानानि परिक्षीयमाणान्यात्मनः सदसद्विवेकविकलतामापादयन्तीति, श्रोत्रादिविज्ञानानां च तृतीया प्रथमार्थे सुब्व्यत्ययेन द्रष्टव्येति । एवं चक्षुरादिविज्ञानेष्वपि योज्यम् । अत्र च करणत्वादिन्द्रियाणामेवं सर्वत्र द्रष्टव्यम्श्रोत्रेणात्मनो विज्ञानानि, चक्षुषात्मनो विज्ञानानीति । ननु च तान्येव द्रष्टृणि कुतो न भवन्ति ? इत्युच्यते—- अशक्यमेवं विज्ञातुं तद्विनाशे तदुपलब्धार्थस्मृत्यभावात्, 5 दृश्यते च हृषीकोपघातेऽपि तदुपलब्धार्थस्मरणम्, तद्यथा - धवलगृहान्तर्वर्तिपुरुषपञ्चवातायनोपलब्धार्थस्य तदन्यतरस्थगनेऽपि तदुपपत्तिरिति तथाहिअहमनेन श्रोत्रेण चक्षुषा वा मन्दमर्थमुपलभे अनेन च स्फुटतरमिति स्पष्टैव करणत्वावगतिरक्षाणाम् । यद्येवमन्यान्यपि करणानि सन्ति तानि किं नोपात्तानि ? कानि पुनस्तानि ? उच्यते, वाक्-पाणि-पाद- पायु - उपस्थ - मनांसि वचनाऽऽदान-विहरण-उत्सर्गा-ऽऽनन्द-सङ्कल्पव्यापाराणि ततश्चैतेषामात्मोपकारकत्वेन करणत्वम्, करणत्वादिन्द्रियत्वमिति, एवं चैकादशेन्द्रियसद्भावे सति पञ्चानामेवोपादानं किमर्थमिति ? आहाचार्य: - नैष दोष:, इँह ह्यात्मनो विज्ञानोत्पत्तौ यत् प्रकृष्टमुपकारकं तदेव करणत्वाद् इन्द्रियम्, एतानि तु वाक्पाण्यादीनि नैवात्मनोऽनन्यसाधारणतया करणत्वेन व्याप्रियन्ते, अथ यां काञ्चन 15 क्रिया-मुपादाय करणत्वमुच्यते एवं तर्हि भ्रूदरादेरप्युत्क्षेपादिसम्भवात् करणत्वं स्यात्, किञ्च - इन्द्रियाणां स्वविषये नियतत्वाद् नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तुमलम्, तथाहि —-चक्षुरेव रूपावलोकनायालम्, न तदभावे श्रोत्रादीनि यस्तु रसाद्युपलम्भे शीतस्पर्शादेरप्युपलम्भः स सर्वव्यापित्वात् स्पर्शनेन्द्रियस्येत्यनाशङ्कनीयम्, इह तु पुनः पाणिच्छेदेऽपि तत्कार्यस्यादानलक्षणस्य 20 दशनादिनाऽपि निर्वर्त्यमानत्वाद् यत्किञ्चिदेतत्, मनसस्तु सर्वेन्द्रियोपकारकत्वाद् अन्तःकरणत्वमिष्यत एव तस्य च बाह्येन्द्रियविज्ञानोपघातेनैव गतार्थत्वाद् न पृथगुपादानमिति, प्रत्येकोपादानं च क्रमोत्पत्तिविज्ञानोपलक्षणार्थम्,
१. श्रोत्रपरिज्ञानानि ख । २. सर्वत्र इति चपुस्तके नास्ति । ३. भवन्ति ? उच्यते ख च । ४. " हृषीकाणि इन्द्रियाणि" स०वि०प० । ५. उच्यन्ते क- खप्रती विना । ६. वचनान० ग ७. इहात्मनो क । ८. ० साधारण्पत्वेन व्याप्रि० क ग । ९. तु इति खआदर्शे न विद्यते ।
10