________________
२२० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे निरुपक्रमायुर्भवति, अन्यदा तु सोपक्रमायुष्क इति । उपक्रमश्चोपक्रमणकारणैर्भवति, तानि चामूनि
दंड कस सत्थ रज्जू अग्गी उदगपडणं विसं वाला । सीउण्हं अरइ भयं खुहा पिवासा य वाही य ॥ मुत्त-पुरीसनिरोहे जिण्णाजिण्णे य भोयणे बहुसो । घंसण घोलण पीलण आउस्स उवक्कमा एए ॥ [ ] उक्तं चस्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यज्जीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्वितं दशनसङ्कटे स्थास्यति ?॥ उच्छासावधयः प्राणाः, स चोच्छासः समीरण: । समीरणाच्चलं नान्यत्, क्षणमप्यायुरद्भुतम् ॥ [ ] इत्यादि ।
येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुःस्थितिमनुभवन्ति 15 तेऽपि मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति
सोयपरिणाणेहिं इत्यादि ततो से एगया मूढभावं जणयंति त्ति यावत् । शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रम् । तच्च कदम्बपुष्पाकारं
द्रव्यतः, भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभावमिति । तेन श्रोत्रेण परिः 20 समन्ताद् घट-पटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैः श्रोत्रपरिज्ञानर्जराप्रभावात् परिहीयमाणैः सद्भिस्ततोऽसौ प्राणी एकदा वृद्धावस्थायां रोगोदयावसरे वा मूढभावं मूढतां कर्तव्या-ऽकर्तव्याज्ञतामिन्द्रियपाटवाभावाद् आत्मनो जनयति, हिता-ऽहितप्राप्ति-परिहारविवेकशून्यतामापद्यत इत्यर्थः । जनयन्ति इति चैकवचनावसरे तिड तिडो भवन्ति [ ] इति बहुवचनमकारि, अथवा तानि वा
१. ०र्भवतीति कप्रतेविना । २. ०श्योपक्रमकारणै० ग । ३. ०चबितं घ ङ च । ४. नास्ति, क्षण० ख । ५. उपक्रमकारणा० ग । ६. ०जराभिभूतविग्रहा इति पाठ: ख आदर्श न वर्तते । ७. जघन्यतरा० ख च । ८. सोयपण्णाणेहिं क ख ग । ९. जणयंतीति यावत् ख च। १०. परि ख ग ।