________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २१९ तव ताणाए वा सरणाए वा, तुमं पि तेसिं णालं ताणाए वा
सरणाए वा । से ण हासाए, ण किड्डाए, ण रतीए, ण विभूसाए । ____ अप्पं च इत्यादि । अल्पं स्तोकम्, चशब्दः अधिकवचनः, खलुः अवधारणे, आयुः इति भवस्थितिहेतवः कर्मपुद्गलाः, इह इति संसारे मनुष्यभवे 5 वा एकेषां केषाञ्चिदेव मानवानां मनुजानामिति पदार्थः । वाक्यार्थस्तु इह अस्मिन् संसारे केषाञ्चिन्मनुजानां क्षुल्लकभवोपलक्षितान्तर्मुहूर्तमात्रम् अल्पं स्तोकमायुर्भवति, चशब्दाद्, उत्तरोत्तरसमयादिवृद्ध्या पल्योपमत्रयावसानेऽप्यायुषि खलुशब्दस्यावधारणार्थत्वात् संयमजीवितमल्पमेवेति, तथाहि–अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोटिं यावत् संयमायुष्कम्, तच्चाल्पमेवेति, अथवा त्रिपल्योपम- 10 स्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्तमपहाय सर्वमपवर्तते, उक्तं च
अद्धा जोउक्कोसे बंधित्ता भोगभूमिएसु लहुं । सव्वप्पजीवियं वज्जयित्तु उव्वट्टिया दोण्हं ॥ [पंचसं० ३२३ ]
अस्या अयमर्थ:-उत्कृष्टे योगे बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव, तें बद्ध्वा, क्व ? भोगभूमिकेषु देवकुर्वादिजेषु, 15 तस्य क्षिप्रमेव सर्वाल्पमायुर्वर्जयित्वा द्वयोः तिर्यङ्-मनुष्ययोरपवृत्तिका अपवर्तनं भवति, एतच्चापर्याप्तकान्तर्मुहूर्तान्तर्द्रष्टव्यम्, तत ऊर्ध्वमनपर्वतनमेवेति ।
सामान्येन चायुः सोपक्रमायुषां सोपक्रमम्, निरुपक्रमायुषां निरुपक्रमम् । यदा ह्यसुमान् स्वायुषस्त्रिभागे त्रिभागत्रिभागे वा जघन्यत एकेन द्वाभ्यां वा उत्कृष्टतः सप्तभिरष्टभिर्वाऽऽकषैरन्तर्मुहूर्तप्रमाणेन कालेनाऽऽत्मप्रदेशरचना- 20 नाडिकान्तर्वतिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा
१. अल्पं च ग । २. स्तोकं च, चशब्दः अल्पवचन: ख । ३. जोगुक्कोसे ख ग च, जोगुक्कोसं घ ङ। ४. अस्यायमर्थः कप्रत्या विना। ५. तद् क घ ङ। ६. देवकुर्वादिषु क । ७. ०र्मुहूर्तकान्तर्द्र० क, ०र्मुहूर्तकान्तं द्र० घ ङ। ८. ऊर्द्ध० ख ग च । ९. वाऽऽयुः ग च । १०. ०रष्टभिर्वा वर्षे० घ च । ११. ०रचनान्तर्वर्तिन ख ।