________________
२१८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे परिस्पन्दात्मिकाऽर्थोपार्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः ।
तदेवं माता-पित्रादिसंयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तो विनिविष्टचेष्टो वा किम्भूतो भवतीति ? आह
एत्थ इत्यादि । अत्र अस्मिन् माता-पित्रादौ शब्दादिविषयसंयोगे वा 5 विनिविष्टचित्तः सन् पृथ्वीकायादिजन्तूनां यत् शस्त्रं उपघातकारि तत्र पुनः प्रवर्तते
एवं पौनःपुन्येन शस्त्रे प्रवृत्तो भवति यदि पृथिवीकायादिजन्तूनामुपघाते वर्तते, तथाहि-शसु हिंसायाम् [पा०धा० ७२४] इत्यस्मात् शस्यते हिंस्यत इति करणे ष्ट्रन् विहितः, तच्च स्वकाय-परकायादिभेदभिन्नमिति । पाठान्तरं वा एत्थ सत्ते पुणो
पुणो, अत्र माता-पितृ-शब्दादिसंयोगे लोभार्थी सन् सक्तः गृद्धः अध्युपपन्न: 10 पौन:पुन्येन विनिविष्टचेष्ट आलुम्पकः सहसाकार: कालाकालसमुत्थायी वा
भवतीति । ___एतच्च साम्प्रतक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात्, तच्चोभयमपि नास्तीत्याह
_ [सू०६४] अप्पं च खलु आउं इहमेगेसिं माणवाणं । 15 तं जहा-सोतपण्णाणेहिं परिहायमाणेहिं चक्खुपण्णाणेहि
परिहायमाणेहिं घाणपण्णाणेहि परिहायमाणेहिं रसपण्णाणेहिं परिहायमाणेहिं फासपण्णाणेहि परिहायमाणेहिं अभिकंतं च खलु वयं सहाए ततो से एगया मूढभावं जणयंति ।
जेहिं वा सद्धि संवसति ते व णं एगया णियगा पुट्वि 20 परिवदंति, सो वा ते णियगे पच्छा परिवदेज्जा । णालं ते
१. ०ऽर्थोपार्जनक्रियोपायादौ ख । २. ०संयोगार्थमर्थालोभी क । ३. इत्थ ग च । ४. ०पित्रादौ विषय० घ । ५. स पृथिवी० ख । ६. ०ते पौन:पुन्येन शस्त्रे प्रवृत्तो भवति, यदि वा पृथिवी० ख । ७. तत् स्वकाय० क । ८. ०परकायभेद० ग । ९. लोभार्थासत्त( र्थी सत्ते ?) क । १०. सहसाकारकः ग घ ङ। ११. युज्यते क घ ङ। १२. दीर्घायुष्कत्वं ख ।