SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २१६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे कइया वच्चइ सत्थो ? किं भंडं ? कत्थ ? कित्तियं भूमि ? । को कयविक्कयकालो ? निव्विस्सइ किं कहिं केण ? ॥ [ ] इत्यादि । स च परितप्यमानः किम्भूतो भवतीति ? आह-कालेत्यादि । काल: कर्तव्यावसरः, तद्विपरीतः अकालः, सम्यग् उत्थातुम् अभ्युद्यन्तुं शीलमस्येति 5 समुत्थायी, इति पदार्थः । वाक्यार्थस्तु–'काले कर्तव्यावसरे अकाले तद्विपर्यासे समुत्तिष्ठते अभ्युद्यतमनुष्ठानं करोति तच्छीलश्चेति, कर्तव्यावसरे न करोति अन्यदा च विदधातीति । यथा वा काले करोत्येवमकालेऽपीति, यथा वाऽनवसरे न करोत्येवमवसरेऽपीति, अन्यमनस्कत्वाद् अपगतकाला-ऽकालविवेक इति भावना, यथा प्रद्योतेन मृगापतिरपगतभर्तृका सती ग्रहणकालमतिवाह्य कृत10 प्राकारादिरक्षा जिघृक्षितेति । यस्तु पुनः सम्यक् कालोत्थायी भवति स यथाकालं परस्परानाबाधया सर्वाः क्रियाः करोतीति, तदुक्तम् मासैरष्टभिरह्ना च, पूर्वेण वयसाऽऽयुषः । । तत् कर्तव्यं मनुष्येण यस्यान्ते सुखमेधते ॥[ धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति । किमर्थं पुनः काला15 ऽकालसमुत्थायी भवतीति ? आह संजोगट्ठी, संयुज्यते संयोजनं वा संयोगः, अर्थः प्रयोजनम्, सोऽस्यास्तीति संयोगार्थी । तंत्र धन-धान्य-हिरण्य-द्विपद-चतुष्पद-राज्यभार्यादिसंयोगः तेनार्थी तत्प्रयोजनी, अथवा शब्दादिविषयसंयोगो मातापित्रादिभिर्वा तेनार्थी काला-ऽकालसमुत्थायी भवतीति । किञ्च। अट्ठालोभी, अर्थः रत्न-कुप्यादिः तत्र आ समन्ताल्लोभः अर्थालोभः, स विद्यते यस्येत्यसावपि काला-ऽकालसमुत्थायी भवति, मम्मणवणिग्वत्, १. केत्तिया भूमी ? ख च । २. निव्विसई ग । ३. केण ॥' मित्यादि ख-चप्रती विना । ४. तद्विपर्यासः ख च । ५. अकालेन ग च । ६. तद्विपर्यासेन खआदर्श विना । ७. अभ्युद्यममनुष्ठानं ख ग च । ८. वा इति ख-चपुस्तकयो स्ति । ९. सर्वां क्रियां क । १०. वयसाऽऽयुषा कप्रतिमृते । ११. येनान्ते घ ङ च । १२. कश्चित् कालो घ ङ। १३. तत्र इति खप्रतौ नास्ति । १४. हिरण्य० इति क-घ-ङ पुस्तकेषु नोपलभ्यते । १५. ०विषय: संयोगो ख ग च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy