SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः पुत्रो मे भ्राता मे स्वजनो मे गृह- कलत्रवर्गो मे । इति कृतमेमेशब्दं पशुमिव मृत्युर्जनं हरति ॥ पुत्र- कलत्र - परिग्रहममत्वदोषैर्नरो व्रजति नाशम् । कृमिक इव कोशकारः परिग्रहाद्दुःखमाप्नोति ॥ [ अमुमेवार्थं नियुक्तिकारो गाथाद्वयेनाह ] संसारं छेत्तुमणो कम्मं उम्मूलए तयट्ठाए । उम्मूलेज्ज कंसाए तम्हा उचएज्ज संयणाई ॥१९६॥ माया मे पिया मे भगिणी भाया य पुत्तदारं मे । अत्थम्मि चेव गिद्धा जम्मण-मैरणाणि पावंति ॥१९७॥ छ ॥ २१५ संसारं छेत्तुमणो० गाहा, माया मे० त्ति गाहा । संसारं नारक -1 - तिर्यङ् 10 नरा-ऽमरलक्षणं माता-पितृ - भार्यादिस्नेहलक्षणं वा छेत्तुमनाः उन्मुमूलयिषुरष्टप्रकारं कर्मोन्मूलयेत् । तदुन्मूलनार्थं च तत्कारणभूतान् कषायानुन्मूलयेत् । कषायापगमनाय च माता-पित्रादिगतं स्नेहं जह्यात् ॥ यतो माता- पित्रादिसंयोगाभिलाषिणः अर्थे रत्न-कुप्यादिके गृद्धाः अध्युपपन्ना: जन्म - जरा - मरणादिकानि दुःखान्यसुभृतः प्राप्नुवन्तीति गाथाद्वयार्थः ॥ १९६-१९७॥ तदेवं कषायेन्द्रियप्रमत्तो माता- पित्राद्यर्थमर्थोपार्जन-रक्षणतत्परो दुःखमेव केवलमवाप्नोतीत्याह— तद्यथा "अहो इत्यादि । अहश्च सम्पूर्णं रात्रिं च चशब्दात् 'पैक्षं मासं चे निवृत्तशुभाध्यवसायः 'पैरि समन्तात् तप्यमानः परितप्यमानः सन् तिष्ठति, १४ 5 १. कसाया ख ज झ ञ । २. सयणाई क ख ज, सयणादी ञ । ३. ०मरणाइँ ञ । ४. पार्वति ॥१९७॥ छ ॥ द्वि० अध्ययने प्रथमोद्देशक: झ । ५. संसारं० गाहा । ख । ६. मे० गाहा ख च । ७. ०भूतांश्च कषाया० क । ८. यस्माद् माता० ख च । ९. केवलमनुभवतीत्याह ख च, केवलमाप्नोतीत्याह ग ङ । १०. अहो म ( य ) इत्यादि क । ११. पक्षं च मासं ख । १२. वा क ग । १३. परिः ङ । १४. समुति (त्ति ? )ष्ठति, क, समनुतिष्ठति ख। 15 20
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy