________________
२१४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
प्रापदिति अतः कृषि-वाणिज्य - सेवादिकां प्राण्युपघातरूपां क्रियामारभते । तदुपघातकारिणि चे तस्यां वाऽकार्यप्रवृत्तायां द्वेष उपजायते, तद्यथाअनन्तवीर्यप्रसक्तायां रेणुकायां रामस्येति । एवं पिता मे, पितृनिमित्तं राग- - द्वेषौ भवतः, यथा रामेण पितरि रागात् तदुपहन्तरि च द्वेषात् सप्तकृत्वः क्षत्रिया 5 विनिपातिताः, सुभूमेनापि त्रिः सप्तकृत्वो ब्राह्मणा इति । भगिनीमित्तेन च क्लेशमनुभवति प्राणी । तथा भार्यानिमित्तं राग- -द्वेषोद्भवः, तद्यथा- चाणक्यन भगिनी-भगिनीपेत्याद्यवज्ञातया भार्यया चोदितेन नन्दान्तिकं द्रव्यार्थमुपागतेन कोपाद् नन्दकुलं क्षयं निन्ये । तथा पुत्रा मे न जीवन्तीति आरम्भे प्रवर्तते । एवं दुहिता मे दुःखितेति राग-द्वेषोपहतचेताः परमार्थमजानानस्तद्विधत्ते येनैहिका10 ऽऽमुष्मिकानपायानवाप्नोति, तद्यथा - जरासन्धो जामातरि कंसे व्यापादिते स्वबलावलेपाद् अपसृतवासुदेवपदानुसारी सबल-वाहनः क्षयमगात् । स्नुषा मे न जीवतीत्यारम्भादौ प्रवर्तते । सखि - स्वजन - सङ्ग्रन्थ- संस्तुता मे, सखा मित्रम्, स्वजनः पितृव्यादिः, सङ्ग्रन्थः स्वजनस्यापि स्वजन: पितृव्यपुत्रशालादिः, संस्तुतः भूयोभूयोदर्शनेन परिचितः, अथवा पूर्वसंस्तुतो माता15 पित्रादिरभिहितः, पश्चात्संस्तुतः शालकादिः, स इह ग्राह्यः, स च मे दु:खित इति परितप्यते । विविक्तं शोभनं प्रचुरं वा उपकरणं हस्त्यश्व - रथा-ऽऽसनमञ्चकादि, परिवर्तनं द्विगुण- त्रिगुणादिभेदभिन्नं तदेव, भोजनं मोदकादि, आच्छादनं पट्टयुग्मादि, तच्च मे भविष्यति नष्टं वा ।
१२
ईंच्चत्थमिति एवमर्थं गृद्धो लोकः तेष्वेव माता-पित्रादिरागादि20 निमित्तस्थानेष्वामरणं प्रमत्तः 'ममेदम्, अहमस्य स्वामी पोषको वा' इत्येवं मोहितमनाः वसेत् तिष्ठेदिति, उक्तं च
१. कृषी ० ख । २. वा ख । ३. व्यापादिताः ख च । ४. चाणाक्येन खप्रतिमृते । ५. ०पत्यवज्ञातया घ ङ । ६. नन्दान्तिके क । ७. ०मुपगतेन च । ८. दुःखिनीति ख च । ९. ० स्तत्तद्विधत्ते ख च । १०. ० ति यथा ख । ११. जीवन्तीत्यारम्भादौ च । १२. ०त्रिगुणादिभेदं तदेव ख च । १३. इच्चत्थं गढिए इति एवमर्थं ख, एच्चत्थमित्यादि एवमर्थं घ ङ इच्चत्थमिति इत्येवमर्थं च ।