________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २१३ अनन्तगमपर्यायत्वात् सूत्रस्यैवमपि द्रष्टव्यम्-यो गुणः स एव मूलं स एव च स्थानम्, यद् मूलं तदेव गुणः स्थानमपि तदेव, यत् स्थानं तदेव गुणो मूलमपि तदेवेति । यो गुणः शब्दादिकोऽसावेव संसारस्य कषायकारणत्वाद् मूलम्, स्थानमप्यसावेवेति, एवमन्येष्वपि विकल्पेषु योज्यम् । विषयनिर्देशे च विषय्यप्याक्षिप्तः-यो गुणे वर्तते स मूले स्थाने चेति, एवं सर्वत्र द्रष्टव्यम् । इह 5 च सर्वज्ञप्रणीतत्वाद् अनन्तार्थता सूत्रस्यावगन्तव्या, तथाहि-मूलमत्र कषायादिकमुपन्यस्तम्, कषायाश्च क्रोधादयश्चत्वारः, क्रोधोऽप्यनन्तानुबन्ध्यादिभेदेन चतुर्धा, अनन्तानुबन्धिनोऽप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि बन्धाध्यवसायस्थानान्यनन्ताश्च तत्पर्यायास्तेषां च प्रत्येकं स्थान-गुणनिरूपणेनानन्तार्थता सूत्रस्य सम्पद्यते, सा च छद्मस्थेन सर्वायुषाऽप्यविषयत्वा[दनन्तत्वा] च्चाशक्या 10 दर्शयितुम्, दिग्दर्शनं तु कृतमेव । अतोऽनया दिशा कुशाग्रीयशेमुष्या गुण-मूलस्थानानां परस्परतः कार्य-कारणभावः संयोजना च कार्येति ।
तदेवं य एव गुणः स एव मूलस्थानम्, यदेव मूलस्थानं स एव गुण इत्युक्तम्, ततः किमिति ? अत आह
इति से गणही महया० इत्यादि । इति हेतौ, यस्मात् शब्दादिगुणपरीत 15 आत्मा कषायमूलस्थाने वर्तते, सर्वोऽपि च प्राणी गुणार्थी गुणप्रयोजनी गुणानुरागीति । अतस्तेषां गुणानामप्राप्तौ प्राप्तिनाशे वा काङ्क्षा-शोकाभ्यां स प्राणी महता अपरिमितेन परि समन्तात् तापः परितापः तेन शारीर-मानसस्वभावेन दुःखेनाभिभूतः सन् पौन:पुन्येन तेषु तेषु स्थानेषु वसेत् तिष्ठेदुत्पद्येत । किम्भूतः सन् ? प्रमत्तः, प्रमादश्च राग-द्वेषात्मकः, द्वेषश्च प्रायो न रागमृते । रागो- 20 ऽप्युत्पत्तेरारभ्यानादिभवाभ्यासाद् माता-पित्रादिविषयो भवतीति दर्शयति
माया मे इत्यादि । तत्र मातृविषयो रागः संसारस्वभावाद् उपकारकर्तृत्वाद्वोपजायते । रागे च सति मदीया माता क्षुत्-पिपासादिकां वेदनां मा
१. वा ख-चपुस्तके विना । २. निरूपणेऽनन्तार्थता ख च, निरूपणादनन्तार्थता ग । ३. अनया ख । ४. किमित्याह ख घ । ५. परिः ख घ ङ । ६. सन् इति कघपुस्तकयोनास्ति । ७. ०कर्तृकत्वा० ख ।