________________
10
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
वाऽऽत्मेति । यदि वा मूलं संसारस्य शब्दादिकषायपरिणतः सन् आत्मा, तस्य स्थानं शब्दादिकम्, गुणोऽप्यसावेवेति । ततश्च सर्वथा य एव गुणः स एव मूलस्थानं वर्तते ।
ननु च वर्तनक्रियायाः सूत्रेऽनुपादानात् कथमाक्षेप इति ? उच्यते-यत्र हि 5. काचिद् विशेषक्रिया नैवोपादायि तत्र सामान्यक्रियाम् अस्ति भवति-विद्यतेवर्तत इत्यादिकामुपादाय वाक्यं परिसमाप्यते, एवमन्यत्रापि द्रष्टव्यमिति ।
२१२
20
अथवा मूलम् इत्याद्यं प्रधानं वा, स्थानम् इति कारणम्, मूलं च तत् कारणं चेति विगृह्य कर्मधारयः, ततश्च य एव शब्दादिको गुणः स एव मूलस्थानं संसारस्याद्यं प्रधानं वा कारणमिति । शेषं पूर्ववदिति ।
साम्प्रतमनयोरेव गुण-मूलस्थानयोर्नियम्य - नियामकभावं दर्शयंस्तदुपात्तानां विषय-कषायादीनां बीजा-ऽङ्कुरन्यायेन परस्परतः कार्य-कारणभावं सूत्रेणैव
दर्शयति
जे मूलट्ठाणे से गुणेत्ति यदेव संसारमूलानां कर्ममूलानां वा कषायाणां स्थानम् आश्रयः शब्दादिको गुणोऽप्यसावेव । अथवा कषायमूलानां शब्दादीनां 15 यत् स्थानं कर्म संसारो वा तत्तत्स्वभावापत्तेः गुणोऽप्यसावेवेति । अथवा शब्दादिकषायपरिणाममूलस्य संसारस्य कर्मणो वा यत् स्थानं मोहनीयं कर्म शब्दादिकषायपरिणतो वाऽऽत्मा तद्गुणावाप्तेः गुणोऽप्यसावेव । यदि वा संसारकषायमूलस्यात्मनो यत् स्थानं विषयाभिष्वङ्गः असावपि शब्दादिविषयत्वाद् गुणरूप एवेति । अत्र च विषयोपादानेन विषयिणोऽप्याक्षेपात् सूचनार्थत्वाच्च सूत्रस्येत्येवमपि द्रष्टव्यम् - यो गुणे गुणेषु वा वर्तते स मूलस्थाने मूलस्थानेषु वा वर्तते, यो मूलस्थानादौ वर्तते स एव गुणादौ वर्तत इति । य एव जन्तुः शब्दादिके प्राग्व्यावणितस्वरूपे गुणे वर्तते स एव संसारमूलकषायादिस्थानादौ वर्तते, एतदेव द्वितीयसूत्रापेक्षया व्यत्ययेन प्राग्वदायोज्यम् ।
१. सूत्रे ऽप्यनुपादानात् च । २. ०न्यायतः ख - चप्रती विना । ३. वात्मेति तद्गुणा० खआदर्श विना । ४. स एव मूलस्थाने ग । ५. ० कषायस्थानादिस्थानादौ ग ।