________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २११ नामादिनिक्षेपे च व्याख्याते सत्युत्तरकालं सूत्रं विव्रियते
जे गुणे से मूलढाणे । अस्य चानन्तर-परम्परादिसूत्रैः सम्बन्धो वाच्यः । तत्रानन्तरसूत्रसम्बन्धः-से हु मुणी परिण्णायकम्मे' त्ति, स मुनिः परिज्ञातकर्मा भवति यस्यैतद् गुण-मूलादिकमधिगतं भवति । परम्परसूत्रसम्बन्धस्तु 'से ज्जं पुण जाणेज्जा सहस्सम्मइयाए परवागरणेणं अण्णेसिं वा सोच्चा' 5 स्वसम्मत्या परव्याकरणेन तीर्थकरोपदेशाद् अन्येभ्यो वाऽऽचार्यादिभ्यः श्रुत्वा जानीयात् परिच्छिन्द्यात, किं तदिति ? उच्यते-जे गणे से मूलढाणे । आदिसूत्रसम्बन्धस्तु सुयं मे आउसंतेणं भगवया एवमक्खायं । किं तत् श्रुतं यद् भगवताऽऽयुष्मताऽऽख्यातमिति ? उच्यते-जे गुणे से मूलट्ठाणे ।
य इति सर्वनाम प्रथमान्तं मागधदेशीवचनत्वाद् एकारान्तं सामान्यो- 10 द्देशार्थाभिधायीति । गुण्यते भिद्यते विशेष्यतेऽनेन द्रव्यमिति गुणः, स चेह शब्दरूप-रस-गन्ध-वर्ण-स्पर्शादिकः । स इति सर्वनाम प्रथमान्तमुद्दिष्टनिर्देशार्थाभिधायीति । मूलम् इति निमित्तं कारणं प्रत्यय इति पर्यायाः । तिष्ठन्त्यस्मिन्निति स्थानम् । मूलस्य स्थानं मूलस्थानम् । 'व्यवच्छेदफलत्वाद् वाक्यानाम्' इति न्यायाद् य एव शब्दादिक: कामगुणः स एव संसारस्य नारक- 15 तिर्यङ्-नरा-ऽमरसंसृतिलक्षणस्य यद् मूलं कारणं कषायास्तेषां स्थानम् आश्रयो वर्तते, यस्माद् मनोज्ञेतरशब्दाधुपलब्धौ कषायोदयः, ततोऽपि संसार इति । अथवा मूलम् इति कारणम्, तच्चाष्टप्रकारं कर्म, तस्य स्थानम् आश्रयः कामगुण इति । अथवा मूलं मोहनीयं तद्भेदो वा कामः, तस्य स्थानं शब्दादिको गुणः । अथवा मूलं शब्दादिको विषयगणः, तस्य स्थानमिष्टा-ऽनिष्टविषयगुणभेदेन व्यवस्थितो 20 गुणरूपः संसार एव, आत्मा वा शब्दाधुपयोगानन्यत्वाद् गुणः । अथवा मूलं संसारः, तस्य शब्दादयः स्थानं कषाया वा, गुणोऽपि शब्दादिकः कषायपरिणतो
★ पृ० १८० । १. सहसम्मुइयाए ख च, सहस्सुइयाए ग, सहस्समुइयाए घ ङ । २. सुच्चा घ ङ। ३. श्रुतं भगवताऽऽयुष्मता यदाख्यातमिति ख, श्रुतं यवता भगवता० ग । ४. ०युष्मता व्याख्यातमिति घ ङ। ५. विशिष्यते ख च । ६. ०ऽनेनेति द्रव्यमिति क घ ङ । ७. ०रस-गन्ध-स्पर्शादयः ख च, ०रस-स्पर्श-गन्धादयः ग । ८. शब्दादिको विषयगुण: च । ९. विषयगुणः ख च ।।